________________
५७६
प्रमेयकमलमार्तण्डे
[४. विषयपरि०
अथात्र द्रव्यं क्रियाहेतुर्न स्पर्शादिगुणः; कुत एतत् ? द्रव्यरहितस्यास्य तद्धेतुत्वादर्शनाच्चेत्; तर्हि वेगस्य क्रियाहेतुत्वं क्रियायाश्च संयोगहेतुत्वं संयोगस्य च द्रव्यहेतुत्वं न स्यात् , किन्तु द्रव्यमेवा. त्रापि तत्कारणम् । ननु द्रव्यस्य तत्कारणत्वे वेगादिरहितस्यापि ५तत्स्यात् तर्हि स्पर्शस्य तदकारणत्वे तद्रहितस्यैवायस्कान्तादेस्तद्धतुत्वं किन्न स्यात् ? तथाविधस्यास्यादर्शनान्नेति चेत्, तर्हि लोहद्रव्यक्रियोत्पत्तावुभयं दृश्यते उभयं कारणमस्तु विशेषाभावात् । तथाच 'एकद्रव्यत्वे सति क्रियाहेतुगुणत्वात्' इत्यस्यानेकान्तः।
सर्वत्र चादृष्टस्य वृत्तौ सर्वद्रव्यक्रियाहेतुत्वं स्यात् । 'यदृष्टं १० यद्रव्यमुत्पादयति तददृष्टं तत्रैव क्रियां करोति' इत्यत्रापि शरीरारम्भकाणुषु क्रिया न स्यादित्युक्तम् । अदृष्टस्य चाश्रय आत्मा, स च हर्षविषादादिविवर्तात्मको द्वीपान्तरवर्तिद्रव्यैर्वियुक्तमेवात्मानं खसंवेदनप्रत्यक्षतः प्रतिपद्यते इति प्रत्यक्षबाधितकर्म निर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टो हेतुः । तद्वियुक्तत्वेनाऽतस्तत्प्रती१५ तावप्यात्मनस्तद्रव्यैः संयोगाभ्युपगमे पटादीनां मेदिभिस्तेषां
वा पटादिभिः संयोगः किन्नेष्यते यतः साख्यदर्शनं न स्यात् ? प्रमाणबाधनमुभंयत्र समानम् ।
किञ्च, धर्माधर्मयोर्द्रव्यान्तरसंयोगस्य चात्मैक आश्रयः, स च भवन्मते निरंशः। तथा च धर्माधर्माभ्यां सर्वात्मनास्यालिङ्गितत२० नुत्वान्न तत्संयोगस्य तत्रावकाशस्तेन वा न तयोरिति ।
अथ धर्माधर्मालिङ्गिततत्स्वरूपपरिहारेण तत्संयोगस्तत्स्वरूपान्तरे वर्त्तते; तर्हि घटादिवदात्मनः सावयवत्वं स्वारम्भकावयवारभ्यत्वमनित्यत्वं च स्यात् ।
एतेनैतन्निरस्तम्-'देवदत्तं प्रत्युपसर्पन्तः पश्चादयो देवदत्त२५गुणाकृष्टास्तं प्रत्युपसर्पणवत्त्वाद्रासादिवत्' इति । यथैव हि तद्वि
शेषगुणेन प्रयत्नाख्येन समाकृष्टास्तं प्रत्युपसर्पन्तः समुपलभ्यन्ते ग्रासादयः, तथा नयनाअनादिना द्रव्यविशेषेणाप्याकृष्टाः स्यादयस्तं प्रत्युपसर्पन्तः समुपलभ्यन्ते एव, अतः "किं प्रयत्नसँधर्मणा
१ अवयवाश्रितस्य । २ अवयवेष्वेव । ३ अवयवलक्षणतन्त्वाश्रितस्य संयोगस्य । ४ अवयविलक्षणपटस्य । ५ अवयविद्रव्यम्। ६ क्रियासंयोगद्रव्येष्वेव। ७ तस्य= क्रियायाः संयोगस्य द्रव्यस्य च । ८ स्पर्शायस्कान्तौ । ९ स्पर्शेन। १० किं वा सर्वत्र' इति तृतीयो विकल्पोयम् । ११ पूर्वम् । १२ सर्व सर्वत्र विद्यते इति वचनात्। १३ अस्मदुक्ते भवदुक्ते च । १४ द्रव्यस्यापि क्रियाहेतुत्वसमर्थनपरेण ग्रन्थेन एक, द्रव्यत्वे सति क्रियाहेतुगुणत्वानुमाननिराकरणेन वा। १५ प्रयत्नसदृशेनेत्यर्थः। .
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org