________________
सू० ४।१०] आत्मद्रव्यवादः
५७१ प्रत्ययाऽवेद्यत्वात् , अन्यथा चार्वाकमतप्रसङ्गः स्यात् । प्रसाध. यिष्यते चाग्रे विस्तरतोस्य क्रियावत्त्वमित्यलमतिप्रसङ्गेन ।
तथा, आत्माऽणुपरममहत्त्वपरिमाणानधिकरणः, चेतनत्वात्, ये तु तत्परिमाणाधिकरणा न ते चेतनाः यथाकाशपरमाण्वादयः, चेतनश्चात्मा, तस्मान्न तत्परिमाणाधिकरण इति। ५
ननु चात्मा परममहापरिमाणाधिकरणो न भवतीति प्रतिज्ञाऽनुमानबाधिती । तच्चानुमानम्-आत्मा व्यापकोऽणुपरिमाणानधिकरणत्वे सति नित्यद्रव्यत्वादाकाशवत् । अणुपरिमाणानधिकरणोसौ अस्मदादिप्रत्यक्षविशेषगुणाधिकरणत्वाद्धटादिवत् । तथा नित्यद्रव्यमात्माऽस्पर्शवद्रव्य॑त्वादाकाशवदेवेति । १० ___ अत्रोच्यते-अणुपरिमाणप्रतिषेधोत्र पर्युदासः, प्रसज्यो वाभिप्रेतः? यदि पर्युदासः; तदासौ भावान्तरस्वीकारेण प्रवर्त्तते । भावान्तरं च किं परममहापरिमाणम्, अवान्तरपरिमाणं वा स्यात् ? प्रथमपक्षे साध्या विशिष्टत्वं हेतुविशेषणस्य । यथा 'अनित्यः शब्दोऽनित्यत्वे सति बाह्येन्द्रियप्रत्यक्षत्वात्' इति ।१५ द्वितीयपक्षे तु विरुद्धत्वम् , यथा 'नित्यः शब्दोऽनित्यत्वे सति वाह्येन्द्रियप्रत्यक्षत्वात्' इति ।
प्रसज्यपक्षेप्यसिद्धत्वम् तुच्छस्वभावाभावस्य प्रमाणाविषयत्वेन प्रतिपादनात् । सिद्धौ वा किमसौ साध्यस्यै स्वभावः, कार्य वा ? यदि खभावः, तर्हि साध्यस्यापि तद्वत्तुच्छरूपतानुषङ्गः । अथ२० कार्यम् । तन्न; तुच्छस्वभावाभावस्य कार्यत्वायोगात् । कार्यत्वं हि किं खकारणसत्तासमवायः, कृतमिति बुद्धिविषयत्वं वा? न तावदाद्यः पक्षः, अभावस्य खकारणसत्तासमवायानभ्युपगमात्, अन्यथा भावरूपतैवास्य स्यात् । नापि द्वितीयः; तुच्छस्वभावाभावस्य तद्विषयत्वासम्भवात् । तस्य हि प्रमाणागोचरत्वे कथं२५ कृतबुद्धिविषयत्वं सम्भवेत् ? अनैकान्तिकं चैतत् ; खननोत्सेचनानन्तरमकार्येप्याकाशे कृतबुद्धिविषयत्वसम्भवात् ।
१ अत्रैवात्मसर्वगतत्वादिनिराकरणे । २ कालात्ययापदिष्टेन हेतुना। ३ परमाणुभिरनेकान्तपरिहारार्थमेतत् , परमाणुषु नित्यत्वमस्ति व्यापकत्वं च नास्तीति भावः । ४ हेतोर्विशेषणसमर्थनार्थमेतत् । ५ योगिप्रत्यक्षविशेषगुणाधिकरणैः परमाणुभिर्व्यभि. चारस्तत्परिहारार्थमस्सदादिपदम् । ६ प्रत्यक्षाश्च ते विशेषगुणाश्च तेषामधिकरणम् । ७ हेतोर्विशेष्यदलसमर्थनार्थम् । ८ क्रिययाऽनेकान्तपरिहारार्थ द्रव्येति । ९ हेतोविशेषणं निरस्यति जैनः । १० साध्यसमत्वम् , महापरिमाणस्याओं हि व्यापकत्वम् , एवं सति आत्मा व्यापकः व्यापकत्वादित्यायातं महापरिमाणव्यापकत्वयोः समानार्थत्वात् । ११ व्यापकत्वविशिष्टस्यात्मनः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org