________________
५७०
प्रमेयकमलमार्तण्डे [४. विषयपरि० दिकृतः पृथिव्यादिषु पूर्वदेशादिप्रत्ययश्चेत्, तर्हि पूर्वाद्याकाश. कृतस्तत्रैव पूर्वादिदिक्प्रत्ययोस्त्वऽलं दिकल्पनाप्रयासेन ।
नन्वेवमादित्योदयादिवशादेवाकाशप्रदेशपतिष्विव पृथिव्यादिष्वपि पूर्वापरादिप्रत्ययसिद्धराकाशप्रदेशश्रेणिकल्पनाप्यनर्थिका ५भवत्विति चेत्, न; 'पूर्वस्यां दिशि पृथिव्यादयः' इत्याद्याधाराधेयव्यवहारोपलम्भात् पृथिव्यायधिकरणभूतायास्तत्प्रदेशपतेः परिकल्पनस्य सार्थकत्वात् । आकाशस्य च प्रमाणान्तरतः प्रसाधितत्वात् । तन्न परपरिकल्पितं दिग्द्रव्यमप्युपपद्यते ।
नाप्यात्मद्रव्यम् । तद्धि सर्वगतत्वादिधर्मोपेतं परैरभ्युपेयते । १०न चास्य तदुपेतत्वमुपपद्यते प्रत्यक्षविरोधात् । प्रत्यक्षेण ह्यात्मा 'सुख्यहं दुःख्यहं घटादिकमहं वेद्मि' इत्यहमहमिकया स्वदेह एव सुखादिस्वभावतया प्रतीयते, न देहान्तरे परसम्बन्धिनि, नाप्यन्तराले । इतरथा सर्वस्य सर्वत्र तथा प्रतीतिरिति सर्व
दार्शत्वं भोजनादिव्यवहारसङ्करश्च स्यात् । १५ अनुमानविरोधाचास्य तद्धर्मोपेतत्वायोगः; तथाहि-नात्मा परममहापरिमाणाधिकरणो द्रव्यान्तराऽसाधारणसामान्यवत्त्वे सत्यनेकत्वाद्धटादिवत् । 'अनेकत्वात्' इत्युच्यमाने हि सामान्येनानेकान्तः, तत्परिहारार्थ 'सामान्यवत्त्वे सति' इति विशेषणम् । तथाकाशादिना व्यभिचारः, तत्परिहारार्थ 'द्रव्यान्तरासाधारण२० सामान्यवत्वे सति' इत्युच्यते । एकस्माद्धि द्रव्यादन्यद्रव्यं
द्रव्यान्तरम्, तदसाधारणसामान्यवत्त्वे सत्यनेकत्वमाकाशादौ नास्तीति। अंत एव परममहापरिमाणलक्षणगुणेनापि नानेकान्तः।
तथा, नात्मा तत्परिमाणाधिकरणो दिक्कालाकाशान्यत्वे सति द्रव्यत्वाद्धटादिवत् । न सामान्येन परममहापरिमाणेन वाने२५ कान्तः, तयोरद्रव्यत्वात् । नापि दिगादिना, 'तदन्यत्वे सति' इति विशेषणात् ।
तथा, नात्मा तत्परिमाणाधिकरणः क्रियावत्त्वाद्वाणादिवत् । न चेदमसिद्धम् ; 'योजनमहमागतः क्रोशं वा' इत्यादिप्रतीतितस्तत्सिद्धेः । न च मनः शरीरं वागतमित्यभिधातव्यम् । तस्याहं
- १ व्योम । २ निखिलद्रव्यावगाहान्यथानुपपत्तेः । ३ आत्मनः सर्वैरात्मभिः सम्ब. न्धात्। ४ गोत्वाश्वत्वमहिषत्वादिना । ५ सामान्यवत्त्वादित्युच्यमाने। ६ यतो द्रव्यत्वं सत्त्वं वा सामान्यमाकाशादिषु । ७ आत्मलक्षणात् । ८ आकाशम् । ९ गुणत्वसामान्यसद्भावादनेकत्वाभावाच्च । १० तत्-परममहत् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org