________________
प्रमेयकमलमार्तण्डे [४. विषयपरि० नित्यद्रव्यत्वं च किं कथञ्चित्, सर्वथा वा विवक्षितम् ? कथश्चिञ्चेत्, घटादिनानेकान्तः, तस्याणुपरिमाणानधिकरणत्वे कथञ्चिन्नित्यद्रव्यत्वे च सत्यपि व्यापित्वाभावात् । सर्वथा चेत्, असिद्धत्वम् , सर्वथा नित्यस्य वस्तुनोऽर्थक्रियाकारित्वेनाश्ववि५षाणप्रख्यत्वप्रतिपादनात् । अस्मदादिप्रत्यक्षविशेषगुणाधिकरणत्वाच्चाणुपरिमाणप्रतिषेधमात्रमेव स्याद् घटादिवत्, तस्य चेष्टत्वात्सिद्धसाध्यता । अस्पर्शवद्रव्यत्वाच्चात्मनो यदि कथञ्चिनित्यत्वं साध्यते; तदा सिद्धसाध्यता । अथ सर्वथा; तर्हि हेतो.
रनन्वयत्वमाकाशादीनामपि सर्वथा नित्यत्वस्य प्रतिषिद्धत्वात् । १० ननु 'देहान्तरे परसम्बन्धिन्यन्तराले चात्मा न प्रतीयते' इत्ययुक्तमुक्तम् । अनुमानात्तत्रास्य सद्भावप्रतीते; तथाहि-देवदत्ताङ्गनाद्यङ्गं देवदत्तगुणपूर्वकं कार्यत्वे तदुपकारकत्वाद्रासादिवत् । कार्यदेशे च सन्निहितं कारणं तजन्मनि व्याप्रियते
नान्यथा, अतस्तदङ्गादिकार्यप्रादुर्भावदेशे तत्कारणवत्तगुण१५सिद्धिः। यत्र च गुणाः प्रतीयन्ते तत्र तहुण्यप्यनुमीयते एव,
तमन्तरेण तेषामसम्भवात्; इत्यप्यसाम्प्रतम् ; यतो देवदत्ताङ्गनायङ्गादिकार्यस्य कारणत्वेनाभिप्रेता ज्ञानदर्शनादयो देवदत्तात्मगुणाः, धर्माधर्मों वा? न तावज्ज्ञानदर्शनसुखादयः स्वसंवेदन
खभावास्तजन्मनि व्याप्रियमाणाः प्रतीयन्ते । वीर्य तु शक्तिः, २० सापि तद्देह एवानुमीयते, तत्रैव तर्लिङ्गभूतक्रियायाः प्रतीतेः। तज्ज्ञानादेस्तदेह एव तत्कार्यकारणविमुखस्याध्यक्षादिना प्रतीतेः तद्बाधितकर्म निर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टः 'कार्यत्वे · सति तदुपकारकत्वात्' इति हेतुः।
अथ धर्माधर्मों; तदङ्गादिकार्य तन्निमित्तमस्माभिरपीप्यते एव । २५ तदात्मगुणत्वं तु तयोरसिद्धम् ; तथाहि-न धर्माधर्मों आत्मगुणो
अचेतनत्वाच्छब्दादिवत् । न सुखादिना व्यभिचारः, अत्र हेतो. रवर्त्तनात्, तद्विरुद्धेन स्वसंवेदनलक्षणचैतन्येनास्याऽव्याप्तत्वा. साधनात् । नाप्यसिद्धता; अचेतनौ तौ स्वग्रहणविधुरत्वात्पटादिवत् । न च बुद्ध्यास्य व्यभिचारः; अस्याः खग्रहणात्मकत्व३०प्रसाधनात् । प्रसाधितं च पौद्गलिकत्वं कर्मणां सर्वशसिद्धि
१ हेतोर्विशेष्यं निरस्यति। २ न तु परममहापरिमाणमवान्तरपरिमाणं वा सिध्येत् । ३ तथाविधसाध्येन व्याप्तस्य हेतोदृष्टान्ते सत्त्वं नास्तीति भावः। ४ महेश्वरेणानेकान्तपरिहारार्थमेतत् । ५ व्याघ्रादिना व्यभिचारपरिहारार्थ तदुपकारकेति । ६ लिङ्गशापकम् । ७ भारवाहादिकायाः। ८ देवदत्ताङ्गनायङ्गादि। ९ वीर्यानुमान । १० पक्ष। ११ बसः। १२ धर्माधर्मरूपाणाम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org