________________
सू० ४.१०] आकाशद्रव्यविचारः
५५१ त्वमेव धर्मो गृह्यते, 'महान् पटुस्तीवः' इत्यादिप्रतीत्या च तीव्रत्वम्, न पुनः परिमाणमियत्तानवधारणात् । नहि 'अयं महाअछब्दः' इति व्यवस्यन् 'इयान्' इत्यवधारयति, यथा द्रव्याणि बद. रामलकबिल्वादीनि । मन्दतीव्रता चावान्तरो जातिविशेषो गुणवृत्तित्वाच्छब्दत्ववत्, तदप्यपेशलम् । यतः कथं शब्दस्य गुणत्वं५ सिद्धं यतस्तद्वृत्तित्वान्मन्दत्वादेर्जाति विशेषत्वं सिद्धयेत् ? अद्रव्य. त्वाञ्चेत् तदपि कथम् ? अल्पमहत्त्वपरिमाणानधिकरणत्वाञ्चेत्, तदपि कुतः ? गुणत्वात् ; चक्रकप्रसङ्गः।
द्रव्यान्तरवदियत्तानवधारणाचेत्, न; वायुनानेकान्तात् । न खलु बिल्वबदादेरिव वायोरियत्तावधार्यते । वायोरप्रत्यक्षत्वा-१० दियत्ता सत्यपि नावधार्यते, न शब्दस्य विपर्ययात्; इत्यप्ययुक्तम् ; गुणगुणिनोः कथञ्चिदेकत्वे गुणप्रतिभासे गुणिनोपि प्रतिभाससम्भवात् । वायुगतस्पर्शविशेषस्यैवाध्यक्षत्वाभ्युपगमे च 'स्पर्शेत्र शीतः खरो वा' इति प्रतीतिः स्यान्न वायुरिति । न खलु रूपावभासिनि प्रत्यये सोवभासते। स्पर्शविशेषपरिणामस्यैव १५ च वायुत्वात्कथं नास्य प्रत्यक्षत्वम् ?
इयत्ता चेयं यदि परिमाणादन्या; कथमन्यस्यानवधारणेऽन्यस्याभावः? न खलु घटानवधारणे पटाभावो युक्तः । परिमाणं चेत्, तर्हि 'इयत्तानवधारणात्परिमाणं नास्ति' इत्यत्र 'परिमाणं नास्ति परिमाणानवधारणात' इत्येतावदेवोक्तं स्यात् । अल्पत्वमहत्त्व-२० प्रत्ययतस्तत्परिमाणावधारणे च कथं तदनवधारणं नामामलकादावपि तत्प्रसङ्गात् ? मन्दतीव्रताभिसम्बन्धात्तत्प्रत्ययसम्भवे च मन्दवाहिनि नर्मदानीरे अल्पमेतत्' तीववाहिनि च कुल्याँजले . १ इयन्ति अवधारयति जनः । २ तीव्रत्वं मन्दत्वं च परिमाणविशेषोऽस्त्वित्युक्ते सत्याह । ३ शन्दे । ४ चक्रकपरिहारार्थ गुणत्वादिति हेतुस्थले इयत्तानबधारणादिति हेतुं योजयति परः। ५ अल्पत्वमहत्त्वपरिमाणाधिकरणत्वेपि वायोरियत्ता नावधार्यते इति भावः। ६ अनैकान्तिकत्वं हेतोः परिहरन्नाह । ७ प्रत्यक्षत्वात्। ८ इयत्तावाय्वोः। ९ प्रदेशभेदाभावात् । १० ततश्च वायुगतस्य स्पर्शस्य प्रत्यक्षत्वाद्वायोरपि प्रत्यक्षत्वं स्यात् , तथा च वायोरप्रत्यक्षत्वं वक्तमशक्यं तव परस्य । ११ न वायुः शीतः खरो वेति प्रतीतिः। १२ रूपी वायुः। १३ तथा च वायोरभावः स्यात् । १४ कथञ्चिदेकवेन । १५ त्वगिन्द्रियग्राह्यत्वम् । १६ इयत्ताया अनवधारणे शब्दस्याल्पत्वमहत्त्वपरिमाणस्याभावः इत्यास्मिन्पक्षे दूषणान्तरम् । १७ इयत्ता परिमाणाद्भिन्नाभिन्ना वेति विकल्पद्वयम् । १८ इयत्तालक्षणस्य । १९ परिमाणलक्षणस्य । २० अन्येति विकरुपे। २१ द्वितीयपक्षे । २१ परेणाङ्गीक्रियमाणे । २३ जलम् । २४ अल्पा सरित् कुल्ला।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org