________________
५५२
प्रमेयकमलमार्तण्डे [४. विषयपरि० 'महदेतत्' इति प्रत्ययः स्यात् । न चैवम् । तस्मान्न मन्दतीव्रतानिबन्धेनोयं प्रत्ययः, अपि त्वल्पमहत्त्वपरिमाणनिबन्धनः, अन्यथा बदरामलकादावपि तनिवन्धनोसौ न स्यात् । बदरादीनां द्रव्यत्वेन तत्परिमाणसम्भवात्तस्यै तन्निबन्धनत्वे शब्देप्यत एवासौ ५तनिबन्धनोस्तु विशेषाभावात् । कारणंगतस्य चाल्पमहत्त्वपरिमार्णस्य शब्दे उपचारात्तथा प्रत्यये बदरादावप्यसौ तथानुषज्येत । तन्नाल्पमहत्त्वपरिमाणाश्रयत्वमप्यस्यासिद्धम्।
नापि सङ्ख्याश्रयत्वम् ; 'एकः शब्दो द्वौ शब्दौ बहवः शब्दा' इति संख्यावत्त्वप्रतीतेघटादिवत् । अथोपचाराच्छब्दे संख्याव१०त्वप्रतीतिः, ननु किं कारणगता, विषयगता वा शब्दे संख्योप.
चर्येत? कारणगता चेत् ; किं समवायिकारणगता, कारणमात्र. गता वा ? आद्यपक्षे 'एकः शब्दः' इति सर्वदा व्यपदेशप्रसङ्गस्त. स्यैकत्वात् । द्वितीयपक्षे तु 'बहवः शब्दाः' इति व्यपदेशः स्यात्तस्य
बहुत्वात् । विषयसंख्योपचारे तु गगनाकाशव्योमादिशब्दा बहु१५ व्यपदेशभाजो न स्युर्गगनलक्षणविषयस्यैकत्वात् । पश्चादीनां च बहुत्वात् ‘एको गोशब्दः' इति खप्नेपि दुर्लभम् । यथाऽविरोधं संख्योपचारः, इत्यप्ययुक्तम् ; स्वयं संख्याववमन्तरेणाविरोधाऽसम्भवात्।
किञ्च, विपरीतोपलम्भस्य बाधकस्य सद्भावे सत्युपचारकल्पना २० स्यात्, न चाग्नित्वरहितपुरुषस्येवैकत्वादिसंख्यारहितस्य शब्दस्योपलम्भोस्तीति कथमुपचारकल्पना? तथापि तत्कल्पने अनुपचरितमेव न किञ्चित्स्यात् । तन्न संख्याश्रयत्वमप्यसिद्धम् ।
नापि संयोगाश्रयत्वम् ; वाय्वादिनाभिहन्यमानत्वात् , पांश्वादिवत् । संयुक्ता एव हि पांवादयो वायुनान्येन वाऽभिहन्यमाना २५ दृष्टाः। तेनं तदभिघातश्च देवदत्तं प्रत्यागच्छतः प्रतिवातेन प्रति
१ जलम् । २ भवत्वित्युक्ते सत्याहाचार्यः। ३ अल्पत्वमहत्त्वलक्षणः । ४ बदरादिष्वल्पत्वमहत्त्वप्रत्ययस्य । ५ अल्पत्वमहत्त्वप्रत्ययः। ६ द्रव्येत्वेनाल्पत्वमहत्त्वपरिमाणससम्भवस्य । ७ शब्दस्य कारणमाकाशम्। ८ द्रव्यस्य । ९ कार्यरूपे । १० ताल्वादिभेर्यादिकारणमात्रस्य । ११ विषयः शब्दस्य वाच्यः। १२ वाग्दिग्भूरश्मिवारिबाणाख्यस्वर्गाणां ग्रहणमादिशब्देन । १३ किन्तु गोशब्दा बहवो भवेयुरिति भावः, न तु गोशब्दो बहुप्रकारः। १४ एकस्मिन्घटें एकः शब्द इत्यादिवत् । १५ पदार्थानाम् । १६ शब्दलक्षणार्थानाम् । १७ असंख्यावत्वस्य । १८ एकत्वादिसंख्यारहितस्योपलम्भाभावेपि । १९ संयोगो गुणः । २० शब्दस्य । २१ सन्दिग्धत्वे सत्याह । २२ साधनमसिद्धमित्युक्ते सत्याह । २३ शब्दस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org