________________
५५०
प्रमेयकमलमार्त्तण्डे
[ ४. विषयपरि०
अत्र प्रतिविधीयते । शब्दानां सामान्येनाश्रितत्वं किमतः साध्यते, नित्यैकामूर्तविभुद्रव्याश्रितत्वं वा ? प्रथमपक्षे सिद्धसा ध्यता; तेषां पुंगलकार्यतया तदाश्रितत्वाभ्युपगमात् । द्वितीयपक्षे तु सन्दिग्धविपेक्षव्यावृत्तिकत्वेनानैकान्तिको हेतुः तथाभूतसा५ ध्यान्वितत्वेनास्य क्वचिद्दृष्टान्तेऽप्रसिद्धेः । प्रतिषिध्यमान कर्मभावत्वे सत्यपि च प्रतिषिध्यमानद्रव्यभावत्वमसिद्धम् ; द्रव्यत्वाच्छब्दस्य । तथा हि-द्रव्यं शब्दः, स्पर्शाल्पत्वमहत्त्व परिमाणसंख्या संयोगगुणांश्रयत्वात्, यद्यदेवंविधं तत्तद्रव्यम् यथा बदरामलकबिल्वादि, तथा चायं शब्दः, तस्माद्द्रव्यम् ।
१०
"
तत्र न तावत्स्पर्शाश्रयत्वमस्यासिद्धम् ; तथाहि स्पर्शवाञ्छन्दः खसम्बद्धार्थान्तराभिघातहेतुत्वात् मुद्गरादिवत् । सुप्रतीतो हि कंसपात्र्यादिध्वानाभिसम्बन्धेन श्रोत्राद्यभिघातस्तत्कार्यस्य बाधिर्यादेः प्रतीतेः । स चास्याऽस्पर्शवत्त्वे न स्यात् । न ह्यस्पर्शवता कालादिनाभिसम्बन्धेऽसौ दृष्टः । न च शब्दसहचरितेन वायुना १५ तदभिघातः इत्यभिधातव्यम् शब्दाभिसम्बन्धान्वयव्यतिरेकानुविधायित्वात्तस्य तथाभूतेपि तदभिघातेऽन्यस्यैव हेतुकल्पने तत्रापि कः समाश्वासः ? शक्यं हि वक्तुम् न वाय्वाद्यभिसम्बन्धात्तदभिघातः किन्त्वन्येन इत्यनवस्थानं हेतूनाम् । गुणत्वेनास्य निर्गुणत्वात्स्पर्शाभावात्तदभिघाताहेतुत्वे चक्रक प्रसङ्गः - गुणत्वं २० द्रव्यत्वे तदप्यस्पर्शवत्त्वे, तदपि गुणत्वे इति । स्पर्शवतार्थेनाभिहन्यमानत्वाच्च स्पर्शवानसौ । न चानेनाभिहन्यमानत्वमस्यासि द्धम् ; प्रतिवातभित्यादिभिः शब्दस्याभिहन्यमानतया सकलजनसाक्षिकत्वत् मूर्तेन चामूर्त्तस्याविरोधेनाऽप्रतिघाताद्गगनभित्त्यादिवत् । तन्नास्य स्पर्शाश्रयत्वमसिद्धम् ।
२५ नाप्यल्प महत्त्वपरिमाणाश्रयम्; अल्पमहत्त्वप्रतीतिविषयत्वा'द्वदरादिवत् । ननु च 'अल्पः शब्दो मन्दः' इत्यादिप्रतीत्या मन्द
१ गुणत्वादिति हेतोः । २ इति विशेषणम् । ३ अतोनुमानान्नभसो द्रव्यसिद्धिराश्रयमात्रस्यैव सिद्धिप्रसङ्गात् । ४ जैनानाम् । ५ विपक्ष: अनित्यानेकमूर्त्ताऽविभुद्रव्याश्रितम् । ६ रूपादयो दृष्टान्तभूता अनित्यादिविशिष्टपक्षे वर्त्तन्तेऽतोऽयमपि हेतु - स्तादृशे पक्षे वर्त्तते अन्यादृशे वेति सन्दिग्धः । ७ गुणत्वात् । ८ नित्यैकव्याप्याश्रयाश्रितत्वे साध्यविकलो दृष्टान्तो रूपादीनां तद्विपरीताश्रयाश्रितत्वात् । ९ ते च ते गुणाश्च । १० अनिर्वचनीयेन । ११ आदौ यत्प्रतिपादितं तदेवान्ते स्वादिति चक्कदोष इति भावः । १२ सन्दिग्धानैकान्तिकत्वे इदम् । १३ स्पर्शवद्भिः । १४ असिद्धमिति संबन्धः । १५ शब्दस्य । १६ अल्पत्वमहत्त्वपरिमाणम् ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org