________________
सू० ४।१०] आकाशद्रव्यविचारः
५४९ यश्चैषामाश्रयस्तत्पारिशेष्यादाकाशम् ; तथाहि-न तावत्स्पर्शवतां परमाणूनां विशेषगुणः शब्दोऽस्मदादिप्रत्यक्षत्वात्कार्यद्रव्यरूपादिवत् । नापि कार्यद्रव्याणां पृथिव्यादीनां विशेषगुणोसौ; कार्यद्रव्यान्तराप्रादुर्भावेप्युपजायमानत्वात्सुखादिवत्, अकारणगुणपूर्वकत्वादिच्छादिवत् , अयावद्र्व्यभावित्वात् , अस्मदादिपुरु-५ षान्तरप्रत्यक्षत्वे सति पुरुषांन्तराप्रत्यक्षत्वाञ्च तद्वत्, आश्रया. ड्रेर्यादेरन्यत्रोपलब्धेश्च । स्पर्शवतां हि पृथिव्यादीनां यथोक्तवि. परीती गुणाः प्रतीयन्ते । नाप्यात्मविशेषगुणः; अहङ्कारेण विभैक्तग्रहणात् , बाह्येन्द्रियप्रत्यक्षत्वात् , आत्मान्तरग्राह्यत्वाच्च । बुद्ध्यादीनां चात्मगुणानां तद्वैपरीत्योपलब्धेः। नापि मनोगुणः; अस्मदा-१० दिप्रत्यक्षत्वाद्रूपादिवत् । नापि दिकालविशेषगुणः; तयोः पूर्वापरादिप्रत्ययहेतुत्वात् । अतः पारिशेष्यागुणो भूत्वाकाशस्यैव लिङ्गम् ।
तच शब्दलिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैकम् । विभु च सर्वत्रोपलभ्यमानगुणत्वात्, नित्यत्वे सत्यस्मदाधुंपलभ्यमानगुणोंधिष्ठानत्वाञ्चात्मादिवत् । नित्यं शब्दाधिकरणं द्रव्यं सामान्य-१५ विशेषेवत्वे सत्यनाश्रितत्वादात्मादिवत् । अनाश्रितं शब्दाधिकरणं द्रव्यं गुणवत्त्वे सत्यस्पर्शवत्त्वात्तद्वत् । असमैवायवत्त्वे सत्यनाश्रितत्वाञ्चास्य द्रव्यत्वमिति ।
१ पृथिव्यादिचतुर्णाम् । २ योगिप्रत्यक्षेण व्यभिचारपरिहारार्थम् । ३ तेषामती. न्द्रियत्वात्तद्गुणोप्यतीन्द्रिय एवेति भावः । ४ कार्यद्वयणुकादि । ५ कारणस्य गगनस्य गुणः कारणगुणः न विद्यते कारणगुणः पूर्व यस्य शब्दस्यासावकारणगुणपूर्वकस्तस्य भावस्तस्मात्, पृथिव्यादिविशेषगुणे परमाणुरूपस्य कारणस्य गुणपूर्वकत्वमस्तीति । ६ दृष्टान्तपक्षे आत्मा कारणम् । ७ गगने सर्वत्र न विद्यते यतः। ८ इच्छादिवदेव । ९ योतिशयेन दूरान्तरितः। १० सर्वत्र सन्दिग्धानकान्तिकले सत्याह । ११ कार्यद्रव्यान्तरप्रादुर्भावे समुपजायमानलक्षणाः। १२ अहं सुख्यहं दुःखीत्यादिवदहंशब्दवान् इत्यहंकारेण विभक्तस्य रहितस्य शब्दस्य ग्रहणात् । १३ सन्दिग्धानकान्तिकत्वे सत्याह । १४ हेतोरसिद्धत्वपरिहारार्थमिदम् । १५ दिगाकाशकालादि सर्वगतं परमते शब्दस्य दिक्कालविशेषगुणत्वे शब्द एव तयोस्सद्भावे लिङ्गं स्यादिति भावः। १६ अविशेषः एकत्वम् । १७ पटेन व्यभिचारपरिहारार्थम् । १८ परमाणुभिर्व्यभिचारपरिहारार्थम् । १९ स गुणः शब्दः । २० नित्यत्वमसिद्धमित्युक्ते सत्याह । २१ अभावेन वा व्यभिचारपरिहारार्थम् । २२ घटेन व्यभिचारपरिहारार्थम् । २३ असिद्धत्वे सत्याह । २४ गुणेन व्यभिचारपरिहारार्थ गुणवत्त्वमिति विशेषणं गुणानां निर्गुणत्वात्। २५ समवायेनामावेन वा व्यभिचारपरिहारार्थम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org