________________
५४६
प्रमेयकमलमार्तण्डे [४. विषयपरि० प्रभवप्रत्यये हि रूपमेवावभासते नापरस्तद्वान् , एवं रसनादिप्रत्य. येपि वाच्यम्; इत्यविचारितरमणीयम् । यतः किमेकस्य रूपादिमतोऽसम्भवो विरुद्धधर्माध्यासेनैकैकत्वानेकत्वयोस्तादात्म्यविरोधात् , तद्रहणोपायासम्भवाद्वा? प्रथमपक्षे तत्र तयोः कथ५ञ्चित्तादात्म्यं विरुद्ध्यते,सर्वथा वा? सर्वथा चेत्, सिद्धसाध्यता। कथञ्चिदेकत्वं तु रूपादिभिर्विरुद्धधर्माध्यासेप्येकाऽविरुद्धम् चित्रज्ञानस्येव नीलाद्याकारैर्विकल्पज्ञानस्येव वा विकल्पेतराकारैरिति । यथा च रूपादिरहितं प्रत्यक्षे न प्रतिभासते तथा तद्रहिता रूपादयोपि । न खलु मातुलिङ्गद्रव्यरहितास्तद्रूपादयः १० खानेप्युपलभ्यन्ते । वस्तुनश्चेदमेवाध्यक्षत्वं यदनात्मखरूपपरि
हारेण बुद्धौ स्वरूपसमर्पणं नाम । इमे तु रूपादयो द्रव्यरहिता. स्तत्र खरूपं न समर्पयन्ति प्रत्यक्षतां च स्वीकर्तुमिच्छन्तीत्यमूल्यदानक्रयिणः।
किञ्च, इदं स्तम्भादिव्यपदेशार्ह रूपम्-किमेकं प्रत्येकम् , १५अनेकानंशपरमाणुसञ्चयमानं वा? प्रथमपक्षे अधोमध्योात्म
कैकरूपवत् रसाद्यात्मकैकस्तम्भद्रव्यप्रसङ्गः। द्वितीयपक्षे तु किमेकमनेकपरमाण्वाकारं ज्ञानं तबाहकम्, एकैकपरमाण्वाकारमने वा? प्रथमविकल्पे चित्रैकज्ञानवद्रूपाद्यात्मकैकद्रव्यप्रसिद्धिरनिषेच्या स्यात् । द्वितीयविकल्पे तु परस्परविविक्तज्ञानपरमाणुप्रति२० भासँस्यासंवेदनात्सकलशून्यतानुषङ्गः ।
अथ तद्हणोपायासम्भवाद्रूपादिमतो द्रव्यस्याभावः; तन्न; 'यमहमद्राक्षं तमेतर्हि स्पृशामि' इत्यनुसन्धानप्रत्ययस्य तदाहिणः सद्भावात् । न च द्वाभ्यामिन्द्रियाभ्यों रूपस्पशाधारैकार्थग्रहण विना प्रतिसन्धानं न्यायम्। रूपस्पर्शयोश्च प्रति नियतेन्द्रियग्राहा. २५त्वादेतन्न सम्भवति । चेतनत्वाचात्मनः स्मरणादिपर्यायसहायस्य
१ एकस्मिन्वस्तुनि । २ अवयविनः। ३ रूपादीनाम् । ४ द्रव्यरूपतया । ५ साहित्ये । ६ अवयविनः। ७ इतरो-निर्विकल्पक: पूर्वसविकल्पकादुपादानभूता. निर्विकल्पकात्सहकारिभूतात्सविकल्पकमुत्पद्यते तदा तदुभयोराकारं बिभ्रति । ८ इदमेव सम्भावयति। ९ तर्हि रूपादयो द्रव्यरहिता बुद्धौ स्वरूपसमर्पका भविष्यन्तीत्याह । १० द्रव्यरहितत्वादिति प्रथमान्तोपि हेतुज्ञेयः। ११ मूल्यं स्वरूपसमर्पणलक्षणमदत्त्वा ऋयिण इति भावः । १२ सौगतमते चित्रैकशानं स्वीकृतम्। १३ एकस्मिन्वस्तुनि । १४ लोके। १५ शेयग्राहकशानाभावात् ज्ञेयस्याप्यभावात् । १६ अनुसन्धान प्रत्यभिज्ञानम् । १७ चक्षुःस्पर्शनाभ्याम् । १८ अनेन प्रत्यक्षमपि तद्वाहकमुक्तम् , ततश्चात्मसिद्धिरिति । १९ वैशेषिकमतनिरासार्थम् । २० बौद्धमतनिरासार्थम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org