________________
सू० ४।१०]
अवयविस्वरूपविचारः
५४५
रभाव एव इति कथं न व्याप्तियतोत्र प्रसङ्गसाधनस्यावकाशो न स्यात् ? निरस्ता चानेकस्मिन्नेकस्य वृत्तिः प्रागेव।
यच्चोक्तम्-'परेष्टिः प्रमाणमप्रमाणं वा' इत्यादि तप्ययुक्तम् । यतःप्रमाणाप्रमाणचिन्ता संवादविसंवादाधीना । परेष्टिमात्रेण च प्रतिपन्नेवयविनि संवादकप्रमाणाभावादप्रामाण्यं स्वयमेव५ भविष्यति । ननु च 'इहेदम्' इति प्रत्ययप्रतीतेः प्रत्यक्षेणैवावयविनो वृत्तिसिद्धेः कथं संवादकप्रमाणाभावो यतोस्याः प्रामाण्यं न स्यात् ? इत्यप्यसङ्गतम् ; तन्त्वाद्यवयवेषु व्यतिरिक्तस्य पटाद्यवयविनः समवायवृत्तेः स्वप्नेप्यप्रतीतेः। न च भेदेनाप्रतिभासमानस्य 'इहेदं वर्तते' इति प्रतीतिर्युक्ता । न हि भेदेनाप्रतिभासमाने १० कुण्डे 'इह कुण्डे बदराणि' इति प्रत्ययो दृष्टः।।
यद्य(द)प्युक्तम्-वृत्तिश्च समवायस्तस्य सर्वत्रैकत्वानिरवयवत्वाच कात्स्न्यैकदेशशब्दाविषयत्वमिति; तदपि खमनोरथमात्रम् ; समवायस्याने प्रबन्धेनं प्रतिषेधात् । ननु तथाप्येकस्मिन्नवयविनि कात्स्न्यैकदेशशब्दाप्रवृत्तेरयुक्तोयं प्रश्न:-'किमेकदेशेन १५ प्रवर्तते कात्स्न्येन वा' इति । कृत्स्न मिति टेकस्याशेषाभिधानम्, 'एकदेशः' इति चानेकत्वे सति कस्यचिदभिधानम् । ताविमौ कात्स्न्यैकदेशशब्दावेकस्सिन्नवयविन्यनुपपनौ; इत्यप्यसमीचीनम्; एकत्रैकत्वेनावयविनोऽप्रतिभासमानात् प्रकारान्तरेण च वृत्तेरसम्भवात् । न खलु कुण्डादौ बदरादेः स्तम्भादौ वा वंशादेः२० कात्स्न्यैकदेशं परित्यज्य प्रकारान्तरेण वृत्तिः प्रतीयते । ततोऽ. वयवेभ्यो भिन्नस्यावयविनो विचार्यमाणस्यायोगानासौ तथाभूतो. भ्युपगन्तव्यः । किं तर्हि ? तन्त्वाद्यवयवानामेवावस्थाविशेषः स्वात्मभूतः शीतापनोदाद्यर्थक्रियाकारी प्रमाणतः प्रतीयमानः पटाद्यवयवीति प्रेक्षादक्षैः प्रतिपत्तव्यम् ।
ननु रूपाँदिव्यतिरेकेणापरस्यावस्थातुः शीताद्यपनोदसमर्थस्याप्रतीतितोऽसत्त्वात् कस्यावयवित्वं भवतापि प्रसाध्यते ? चक्षुः
२५
१ एकदेशेन सर्वात्मना वेति प्रकारद्वयेन वृत्तिाप्ता, तया वाऽवयविसत्त्वं व्याप्तमिति हेतोः। २ एकस्यावयविनोऽनेकेष्ववयवेषु वृत्तिभविष्यति नन्वित्याशङ्कायामा. हाचार्यः । ३ सकाशात् । ४ बदरेभ्यः । ५ विस्तरेण । ६ अशेषाणां स्वभावानाम् । ७ देशानाम् । ८ देशस्य । ९ सर्वथा । १० अवयवेषु। ११ परमतापेक्षया । १२ वर्तनस्य । १३ सर्वथा । १४ आतानवितानीभूतपरिणामविशेषः । १५ अवयवेभ्यः कथञ्चिदभिन्नः। १६ रूपिप्रतिषेधकः सौगतः। १७ आदिना रसगन्धवर्णशब्दाः । १८ अवयविरूपपदार्थस्य । १९ हेतोरसिद्धत्वं परिहरति परः। ...
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org