________________
५४४
प्रमेयकमलमार्तण्डे [४. विषयपरि० धनं वा? स्वतन्त्रं चेत् ; धर्मिसाध्यपदयोाघोतः, यथा-'इदं च नास्ति च' इति । हेतोराश्रयासिद्धत्वञ्च, अर्वयविनोऽप्रसिद्धः। न च वृत्त्या सत्वं व्याप्तम्। समवायवृत्त्यनभ्युपगमेपि भवता रूपादेः सत्त्वाभ्युपगमात् । एकदेशेन सर्वात्मना वावयविनो ५वृत्तिप्रतिषेधे विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् प्रकारान्तरेण वृत्तिरभ्युपगता स्यात् , अन्यथी 'न वर्तते' इत्येवाभिधातव्यम् । वृत्तिश्च समवायः, तस्य सर्वत्रैकत्वानिरवयवत्वाच्च कात्स्न्यैकदेशशब्दाविषयत्वम् । अथ प्रसङ्गसाधनं परस्येष्ट्याँऽनिष्टापादनात् । ननु परेष्टिः प्रमाणम् , अप्रमाणं वा ? यदि प्रमाणम् । १० तर्हि तयैव बाध्यमानत्वादनुत्थानं विपरीतानुमानस्य । न चाने
नैवास्या बाधा; तामन्तरेणास्योऽपक्षधेर्मत्वात् । अथाप्रमाणम् । तर्हि प्रमाणं विना प्रमेयस्यासिद्धिरित्यभिधातव्यम् , किमनुमानोपन्यासेनास्याऽपक्षधर्मतयाऽप्रमाणत्वात् ?
इत्यप्यपरीक्षिताभिधानम् ; यतः प्रसङ्गसाधनमेवेदम् । तञ्च १५'साध्यसाधनयोाप्यव्यापकभावसिद्धौ व्याप्याभ्युपगमो व्याप
काभ्युपगमनान्तरीयकः, व्यापकाभावो वा व्याप्याभावाविनाभावी' इत्येतत्प्रदर्श फलम् । [व्याप्य व्यापकभावसिद्धिश्चात्र
लोकप्रसिद्धैव । लोको हि कस्यचित्कचित्सर्वात्मना वृत्तिमभ्युप' गच्छति यथा बिल्वादेः कुण्डादौ, कस्यचित्त्वेकदेशेन यथानेक२० पीठादिशयितस्य चैत्रादेः । यत्रं च प्रकारद्वयं व्यावृत्तं तत्र वृत्ते
१ परेष्टयानिष्टापादनं यत्र तत्प्रसङ्गसाधनम् । २ अवयवी धर्मी, नास्तीति साध्यपदम् । ३ स्वमतापेक्षया वक्ति वैशेषिकः । लोकप्रसिद्धोऽस्ति नास्तीति प्रतिपाद्यते जैनैरिति विरोध इति भावः। परस्परं विरोध इत्यर्थः । ४ वादिनो जैनस्यापेक्षयाऽवयविनो धर्मिणः । ५ समवायवृत्त्यावयवेष्ववयवी वर्तते यतः। ६ जैनेन । ७ तादात्म्येन, न तु समवायेनेति भावः । ८ किञ्च । ९ शेषाभ्यनुज्ञा सामान्याभ्युपगमः । १० समवायेन । ११ विशेषप्रतिषेधस्य शेषाभ्यनुशाविषयत्वाभावे । १२ न तु सर्वात्मनैकदेशेनेत्यभिधातव्यम् । १३ अवयवेष्ववयविनः। १४ अवयवेषु । १५ अवयवे. ध्ववयविनः समवायः कात्स्येनैकदेशेन वेति शब्दः। १६ प्रतिवादिनो वैशेषिकस्य । १७ पराभ्युपगमेन परस्यैवानिष्टापादनात् । १८ अवयवेभ्यो भिन्नोऽवयवी सर्वथा विद्यते इति परेष्टिः। १९ अवयवी नास्ति वृत्तिविकल्पाद्यनुपपत्तरिति । २० अवयवी नास्ति वृत्तिविकल्पाद्यनुपपत्तेरित्यस्य । २१ विपरीतानुमानेन परेष्टेः पराभ्युपगमस्य यदा बाधा स्यात्तदा परेष्टिविषयस्यावयविनोऽसत्वात्तद्धर्मत्वं हेतोर्नास्तीति भावः । २२ अवयविरूपस्य । २३ जैनेन। २४ एवकारः स्वतन्त्रसाधननिरासार्थः । २५ क्वचिद्दष्टान्ते । २६ अविनाभूतः। २७ धर्मिणि । २८ प्रसङ्गसाधनं भवति । २९ कात्स्यैकदेशवृत्ति
त्वयोः। ३० अवयवेषु । ३१ अवयवेष्ववयविनः सर्वात्मनैकदेशेन वा वृत्तेः। Jain Educationa International For Personal and Private Use Only
www.jainelibrary.org