________________
सू० ४।१०] अवयविस्वरूपविचारः
५४३ न स्यात् । अथ स्वभावान्तरेणासाववयवान्तरे वर्त्तते; तदास्य निरंशताव्याघातः, कथञ्चिदनेकत्वप्रसङ्गश्च, स्वभावभेदात्मकत्वाद्वस्तुमेदस्य । ते च स्वभावा यद्यतोऽर्थान्तरभूताः; तदा तेष्वप्यसौ खभावान्तरेण वर्तेतेत्यनवस्था । अथानान्तरभूताः; तीवयवैः किमपराद्धं येनैते तथा नेष्यन्ते ? तदिष्टौ वावयविनोऽने-५ कत्वमनित्यत्वं च स्वशिरस्ताडं पूत्कुर्वतोप्यायातम् ।
यदि चावयव्यविभागः स्यात्तदैकदेशस्यावरणे रागे च अखिलस्यावरणं रागश्चानुषज्यते, रक्तारक्तयोरावृतानावृतयोश्चावयवि. रूपयोरेकत्वेनाभ्युपगमात् । न चैवं प्रतीतिः, प्रत्यक्षविरोधात् । न चान्योन्यं विरुद्धधर्माध्यासेप्येक युक्तम्, अत एव, अनुमान-१० विरोधाच्च । तथाहि-यद्विरुद्धधर्माध्यासितं तन्नकम् यथा कुटकुड्याधुपलभ्यानुपलभ्यस्वभावम् , आवृतानावृतादिस्वरूपेण वि. रुद्धधर्माध्यासितं चावयविखरूपमिति । तथाप्येकत्वे विश्वस्यैकद्रव्यत्वानुषङ्गः।
ननु वस्त्रादे रागः कुङ्कुमादिद्रव्येण संयोगः, स चाव्याप्यवृत्ति-१५ स्तत्कथमेत्र रागे सर्वत्र राग एकदेशावरणे सर्वस्यावरणम् ? तदप्यसारम् ; यतो यदि पटादि निरंशमेकं द्रव्यम् , तदा कुङ्कुमादिना किं तत्राव्याप्तं येनाऽव्याप्यवृत्तिः संयोगो भवेत् ? अव्याप्ती वा भेदप्रसङ्गो व्याप्ताव्याप्तस्वरूपयोर्विरुद्धधर्माध्यासेनैकत्वायोगात् ।
किञ्च, अस्याव्याप्यवृत्तित्वं सर्वद्रव्याव्यापकत्वम्, एकदेश-२० वृत्तित्वं वा? न तावत्प्रथमः पक्षः, द्रव्यस्यैकस्य सर्वशब्दविषयत्वानभ्युपगमात् । अनेकत्र हि सर्वशब्दप्रवृत्तिरिष्टा । नापि द्वितीयः; तस्यैकदेशासम्भवात्, अन्यथा सावयवत्वप्रसङ्गात् । ततो नास्त्यवयवी वृत्तिविकल्पाद्यनुपपत्तेरिति । ननु चावयविनो निरासे यत्साधनं तत्कि स्वतन्त्रम्, प्रसङ्गसा-२५
१ किंतु सांशवप्रसङ्गः। २ अवयविनः सकाशादभिन्नाः। ३ तन्तुलक्षणैः । ४ अवयवी धर्म्यऽनेको भवतीति साध्यो धर्मोऽवयवेभ्योऽनन्तरत्वात्तत्स्वरूपवत् । अवयवी धर्माऽनित्यो भवति अवयवेभ्योऽनन्तरत्वात्तत्स्वरूपवत् । अवयवानां बहुत्वादनित्यत्वाच्चेति उभयत्र हेतुः। ५ वैशेषिकस्य । ६ निरंशम् । ७ तस्मान्नकम् । ८ एकदेशे। ९ अव्याप्यवृत्तिर्गुणः संयोगलक्षण इति वचनात् । १० एकदेशे । ११ देशे। १२ देशस्य । १३ परेण। १४ तथा च निरंशत्वव्याघातः स्यात् । १५ शशविषाणवत् । १६ पक्षहेतुदृष्टान्तादयो यत्र विद्यन्ते तत्स्वतत्रम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org