________________
५४२
प्रमेयकमलमार्तण्डे [४. विषयपरि० ननु चार्वाग्भागदर्शने सत्युत्तरकालं परभागदर्शनानन्तरस्मरणसहकारीन्द्रियजनितं स एवायम्' इति प्रत्यभिज्ञाज्ञानमध्यक्षमवयविनः पूर्वापरावयवव्याप्तिग्राहकम्। तदप्यसाम्प्रतम्। प्रत्यभिज्ञाज्ञानेऽध्यक्षरूपत्वस्यैवासिद्धेः । अक्षाश्रितं विशदखभावं हि ५प्रत्यक्षम्, न चास्यैतल्लक्षणमस्तीति । अक्षाश्रितत्वे चास्याखिलावयवव्याप्यवयविखरूपग्राहकत्वासम्भवः, अक्षाणां सकलावयवग्रहणे व्यापारासम्भवात् । न च स्मरणसहायस्यापीन्द्रियस्याविषये व्यापारः सम्भवति । यद्यस्याविषयो न तत्तत्र स्मरणसहा.
यमपि प्रवर्तते यथा परिमलस्मरणसहायमपि लोचनं गन्धे, १० अविषयश्च व्यवहितोऽक्षाणां परभागभाव्यवयवसम्बन्धित्वलक्ष
णोऽवयविनः स्वभाव इति । , न चानेकावयवव्यापित्वमेकखभास्यावयविनो घटते; तथा हि-यन्निरंशैकस्वभावं द्रव्यं तन्न सकृदनेकद्रव्याश्रितम् यथा परमाणु, निरंशैकस्वभावं चावयविद्रव्यमिति । यद्वा, यदनेकं द्रव्यं १५ तन्न सन्निरंशैकद्रव्यान्वितम् यथा कुटकुड्यादि, अनेकद्रव्याणि
चावयवा इति। _ अस्तु धानेकत्रावयविनो वृत्तिः, तथाप्यस्यासौ सर्वात्मना, एकदेशेन वा स्यात् ? यदि सर्वात्मना प्रत्येकमवयवेष्ववयवी वर्तेत; तदा यावन्तोऽवयवास्तावन्त एवावयविनः स्युः, तथा २० चानेककुण्डादिव्यवस्थितबिल्वादिवदनेकावयव्युपलम्भानुषङ्गः।
अथैकदेशेन; अत्राप्यस्यानेकत्र वृत्तिः किमेकावयवक्रोडीकृतेन खभावेन, स्वभावान्तरेण वा स्यात् ? तत्राद्यविकल्पोऽयुक्तः, तस्य तेनैवावयवेन क्रोडीकृतत्वेनान्यत्र वृत्ययोगात् । प्रयोगः-यदेक
क्रोडीकृतं वस्तुखरूपं न तदेवान्यत्र वर्तते यथैकभाजनक्रोडी२५ कृतमाम्रादि न तदेव भाजनान्तरमध्यमध्यास्ते, एकावयवक्रोडी
कृतं चावयविस्वरूपमिति । वृत्तौ वान्यत्र अवयवे वृत्त्यनुपपत्तिरपरस्वभावाभावात् । एकावयवसम्बद्धस्वभावस्याऽतद्देशावयवान्तरसम्बन्धाभ्युपगमे च तवयवानामेकदेशतात्तिः, एकदेशतायां चैकात्म्यमविभक्तरूपत्वात् । विभक्तरूपावस्थितौ चैकदेशत्वं
.१ स्मरणं हि पूर्वभागस्य । २ तदविषयत्वात्। ३ परपरिकल्पितमवपविनः स्वरूपमऽवयवप्रधानतया निराकुर्वन्नाह । ४ एकस्वभावत्वं च नित्यनिरंशैकस्वभाव. त्वात् । ५ अवयवान्तरे। ६ विवक्षिताबयवे। ७ तेषां विवक्षिताविवक्षितानाम् । ४ विवादापना अवयवा एकदेशत्वमाजो भवन्सेकस्वभावेनावयविना व्याप्यत्वादेकाक्यववर । भक्यवानाम्। १० अविभक्तरूपत्वमसिद्धमित्युक्त सलाह।.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org