SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ सू० ४।१०] अवयविस्वरूपविचारः ५४१ व्याप्याग्रहणे तद्व्यापकस्यापि ग्रहीतुमर्शक्तेः। प्रयोगः-यद्येन रूपेण प्रतिभासते तत्तथैव तद्यवहारविषयः यथा नीलं नीलरूपतया प्रतिभासमानं तद्रूपतयैव तयवहारविषयः, अर्वाग्भागभाव्यवयवसम्बन्धितया प्रतिभासते चावयवीति । न च परभागभाविव्यवहितावयवाप्रतिभासनेप्यव्यवहितोऽवयवी प्रतिभाती-५ त्यभिधातव्यम् । तदप्रतिभासने तद्गतत्वेनास्याऽप्रतिभासनात् । तथाहि-यस्मिन्प्रतिभासमाने यद्रूपं न प्रतिभाति तत्ततो भिन्नम् यथा घटे प्रतिभासमानेऽप्रतिभासमानं पटवरूपम्, न प्रतिभासते चार्वाग्भागभाव्यवयवसम्बन्ध्यवयविखरूपे प्रतिभासमाने परभागभाव्यवयवसम्बन्ध्यवयविर्खरूपम्, इति कथं निरंशैकाव-१० यविसिद्धिः? अर्वाग्भागपरभागभाव्यवयवसम्बन्धित्वलक्षणविरुद्वधर्माध्यासेप्यस्याभेदे सर्वत्र भेदोपरतिप्रसङ्गः, अन्यस्य भेदनिबन्धनस्यासम्भवात् । प्रतिभासभेदो भेदनिबन्धनमित्यप्यपेशलम्; विरुद्धधर्माध्यासं भेदकमन्तरेण प्रतिभासस्यापि भेदकत्वासम्भवात् । नापि परभागभाव्यवयवावयविग्राहिणा प्रत्यक्षेणार्वाग्भागभाव्यवयवसम्बन्धित्वं तस्य ग्रहीतुं शक्यम्; उक्तदोषानुषङ्गात् । नापि स्मरणेनार्वाक्परभागभाव्यवयवसम्बन्ध्यवयविखरूपग्रहः, प्रत्यक्षानुसारेणास्य प्रवृत्तेः, प्रत्यक्षस्य च तदाहकत्वप्रतिषेधात्। नाप्यात्मा अर्वाक्परभागावयवव्यापित्वमवयविनो ग्रहीतुं समर्थः,२० जेंडतया तस्य तदाहकत्वानुपपत्तेः, अन्यथा खापमदमूच्छाद्यवस्थास्वपि तदाहित्वानुषङ्गः । प्रत्यक्षादिसँहायस्याप्यात्मनोवयविखरूपग्राहित्वायोगः, अवयविनो निखिलावयवव्याप्तिग्राहित्वेनाध्यक्षादेः प्रतिषेधात् । १ दण्डाग्रहणे तत्सम्बन्धवान्दण्डी पुमान् ग्रहीतुं न शक्यते यथा। २ अवयवी धर्मी अर्वाग्भागभाव्यवयवसम्बन्धितया तद्वयवहारविषयस्तथैव प्रतिभासमानत्वादित्युपरिष्टायोज्यम् । ३ परभागभाविव्यवहितावयवाप्रतिभासमानेपि अव्यवहितोऽवयवी भाति, ततस्तथैव प्रतिभासमानत्वमसिद्धमित्युक्ते सत्याह । ४ अवयवी परभागमाव्यऽवयवगतत्वेन न प्रतिभासतेऽगृहीताधारत्वान्मेरुमूनिं मोदकराशिवत् । ५ भिन्नम् । ६ तस्मिन्प्रतिभासमानेऽप्रतिभासमानत्वादिति हेतोः। ७ तस्माद्भिन्नमेव । ८ भागदये सति । ९ तन्तुलक्षणैरंशैः कृत्वा पटोऽशी प्रतिपाद्यते तस्मात्सर्वथा भिन्ना अतो निरंशावयवी ते तस्मात्सर्वथा भिन्ना अतस्तेषां विनाशेपि अस्य विनाशो नातो नित्यत्वमिति भावः। १० तव परस्य। ११ व्यवहिताऽव्यवहितलक्षण। १२ घटपटादो। १३ विरुद्धधर्माध्यासादपरस्य । १४ अवयविनः । १५ व्याप्याग्रहणे तयापकस्यापि ग्रहीतुमशक्तरित्यादि । १६ परमते जड आत्मा। १७ आदिना सरणग्रहणम् । प्र. क. मा०४६ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy