________________
सू० ४।१०] अवयविस्वरूपविचारः अर्वाक्परभागावयवव्यापित्वग्रहणमप्यवयविद्रव्यस्योपपन्नम् । प्र. साधितं चानुसन्धानस्य सविषयत्वमित्यलमतिप्रसङ्गेनै । तन्न परेषां चतुःसंख्यं द्रव्यं यथोपवर्णितस्वरूपं घटते, सर्वथा नित्यखभावाणूनामनर्थक्रियाकारित्वेनासम्भवतः तदारब्धव्यणुकाद्य. वयविद्रव्यस्याप्यसम्भवात् । न हि कारणाभावे कार्य प्रभव-५ त्यतिप्रसङ्गात् । स्वावयवेभ्योर्थान्तरस्यावयविनो ग्राहकप्रमाणाभावाच्चासत्त्वम्।
जातिभेदेन पृथिव्यादिद्रव्याणां भेदोपवर्णनं चानुपपन्नम्। खरूपासिद्धौ शशशृङ्गवद्भदोपवर्णनासम्भवात् । जातिभेदेनात्यन्तं तेषां भेदे चान्योन्यमुपादानोपादेयभावो न स्यात् । येषां हि १० जातिभेदेनात्यन्तिको भेदो न तेषां तद्भावः यथात्मपृथिव्यादीनाम् , तथा तद्भेदश्च पृथिव्यादिद्रव्याणामिति। तन्तुपटाधुपादानोपादेयभावेन व्यभिचारपरिहारार्थम् आत्यन्तिकविशेषणम् । न हि तत्रात्यन्तिकस्तद्भेदः, पृथिवीत्वादिसामान्यस्याभिन्नस्यापीष्टेः। नन्वेवं द्रव्यत्वादिना पृथिव्यादीनामप्यभेदात्तद्भावोस्तु १५ तन्न; आत्मपृथिव्यादीनामप्येवं तद्भेदाभावादुपादानोपादेयभावः स्यात्, तथा चात्माद्वैतप्रसङ्गात्कुतः पृथिव्यादिभेदः स्यात् ? तन्नात्यन्तिकभेदे पृथिव्यादीनां तद्भावो घटते। अस्ति चासौ. चन्द्रकान्ताजलस्य, जलान्मुक्ताफलादेः, काष्ठादनलस्य, व्यजनादे. श्चानिलस्योत्पत्तिप्रतीतेः । चन्द्रकान्ताद्यन्तर्भूताजलादेरेव द्रव्या-२० जलाद्युत्पत्तिः; इत्यप्यनुपपन्नम्। तत्र तत्सद्भावावेदकप्रमाणाभावात् । तथापि चन्द्रकान्तादौ जलाद्यभ्युपगमे मृत्पिण्डादौ घटाद्यभ्युपगमोपि कर्तव्य इति सांख्यदर्शनमेव स्यात् । ततो मृत्पि. ण्डादौ घटादिवञ्चन्द्रकान्तादौ जलादेरप्यप्रतीतितोऽभावात्, आत्यन्तिकभेदे चोपादानोपादेयभावासम्भवात् , 'पर्यायभेदेना-२५ न्योन्यं पृथिव्यादीनां भेदो रूपरसगन्धस्पर्शात्मकपुद्गलद्रव्य. रूपतया चाभेदः' इत्यनवद्यम् । रूंपादिसमन्वयश्च गुणपदार्थ
१ रूपस्पर्श। २ प्रत्यभिशानसमर्थनसमये। ३ अनुमन्धानसमर्थनेन । ४ वैशेषिकाणाम् । ५ सर्वथा नित्यानित्यतया। ६ पृथिवीत्वादिना। ७ ययोजातिमेदेन मेदो न तयोरुपादानोपादेयभावोस्तीत्युक्तं ततस्तन्तुपटादौ व्यभिचारो भवति। ८ तन्तुस्व. पटत्वजातिभेदे सत्यपि। ९ तन्तुपटादिषु। १० अयमात्मेमे पृथिव्यादय इति । ११ मा भवत्वित्युक्ते सत्याह । १२ पृथिवीरूपात् । १३ सर्व सर्वत्र विद्यते इति वचनात् । १४ पृथिव्यामेव गन्धोऽस्वेव रस इति वचनात्कथं चतुर्णामविशेषेण रूपायात्मकत्वमित्याह । १५ समन्वयः सम्बन्धः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org