________________
प्रमेयकमलमार्त्तण्डे
[ ४. विषयपरि०
नाप्युभयदोषः चौर [ पार ] दारिकाभ्यामचौर पारदारिकवत् जैनाभ्युपगतवस्तुनो जात्यन्तरत्वात् । न खलु भेदाभेदयोः सत्त्वासत्त्वयोर्वाऽन्योन्यनिरपेक्षयोरेकत्वं जैनैरभ्युपगम्यते येनायं दोषः, तत्सापेक्षयोरेव तदभ्युपगमात्, तथाप्रतीतेश्च । ५ नापि सङ्करव्यतिकरौ; स्वरूपेणैवार्थे तयोः प्रतीतेः ।
५३६
नाप्यनवस्था 'धर्मिणो ह्यनेकरूपत्वं न धर्माणां कथञ्चन' इति, वस्तुनो ह्यभेदो धर्म्येव, भेदस्तु धर्मा एव, तत्कथमनवस्था ? अभावदोषस्तु दूरोत्सारित एव; अशेषप्राणिनामनेकान्तात्मकार्थस्यानुभवसम्भवात् ।
१० ननु शरीरेन्द्रियबुद्धिव्यतिरिक्तात्मद्रव्यस्येच्छादिगुणाश्रयस्य नित्यैकरूपत्वात्कथं सर्वस्यानेकान्तात्मकत्वम् ? न च नित्यैकरूपत्वे कर्तृत्वभोक्तृत्व जन्ममरणजीवन हिंसकत्वादिव्यपदेशाभावः ज्ञानचिकीर्षाप्रयत्नानां समवायो हि कर्तृत्वम्, सुखादिसंवित्समवायस्तु भोक्तृत्वम्, अपूर्वैः शरीरेन्द्रियबुद्ध्यादिभि१५ श्चाभिसम्बन्धो जन्म, प्राणात्तैस्तैस्तु वियोगो मरणम्, जीवनं 'तु सदेह स्यात्मनो धर्माधर्मापेक्षो मनसा सम्बन्धः, हिंसकत्वं च शरीरचक्षुरादीनां वधन पुनरात्मनो विनाशात् । तथा च सूत्रम्"कार्याश्रयकर्तृवधाद्धिंसा” [ न्यायसू० ३|१|६ ] इति । कार्याश्रयः शरीरं सुखादेः कार्याश्रयत्वात् । कर्तृणीन्द्रियाणि विषयो२० पलब्धेः कर्तृत्वादिति ।
तदप्यसमीक्षिताभिधानम्; सर्वथाऽपरित्यक्त पूर्वरूपत्वेनास्यकाश कुशेशयवत् ज्ञानादिसमवायस्यैवासम्भवात् कथं तदपेक्षया कर्तृत्वादिस्वरूपसम्भवः ? पूर्वरूपपरित्यागे वा कथं नानेकान्तात्मकत्वम् व्यावृत्यनुगमात्मकस्योत्मनः स्वसंवेदनप्रत्यक्षतः २५. प्रसिद्धेः । व्यावृत्तिः खलु सुखदुःखादिस्वरूपापेक्षया आत्मनः अनुगमश्च चैतन्यद्रव्यत्वसत्त्वादिस्वरूपापेक्षय । तदात्मकत्वं चाध्यक्ष एव प्रसिद्धम् ।
१ आत्मादिवस्तुनः । २ द्रव्यं पर्यायमपेक्ष्य वर्त्तते पर्यायो द्रव्यमपेक्ष्य वर्त्तते । ३ परस्परापेक्षया । ४ भेचकरत्नादौ । ५ धर्माणामपरधर्माऽसम्भवात् । ६ प्रत्यक्षादि - प्रमाणतः । ७ येषां वादिनां शरीरमेवात्मा इन्द्रियाण्येवात्मा बुद्धिरेवात्मा वा तेषां मतनिरासार्थमिदं विशेषणम् । ८ आत्मना सह । ९ आदिना चिकीर्षाप्रयत्नादि । १० घटते । ११ आत्मनः । १२ व्यापित्वाव्यापित्वरूपे । १३ घटपटादौ । १४ पर्यायापेक्षाया व्यावृत्त्यात्मकस्य चैतन्यापेक्षयानुगमात्मकस्य ।
१५ आकार वै
लक्षण्याविशेषात् । १६ आत्मसुखादिवत् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org