________________
सू० ४।१० ]
परमाणुरूपनित्यद्रव्यविचारः
५३७
ननु चानुवृत्तव्यावृत्तस्वरूपयोः परस्परं विरोधात्कथं तदात्मकत्वमात्मनो युक्तम् ? इत्यप्यसत्; प्रमाणप्रतिपन्ने वस्तुस्वरूपे विरोधानवकाशात् । न खलु सर्पस्य कुण्डलेतरावस्थापेक्षया अङ्गुल्यादेर्वा सङ्कोचितेतरस्वभावापेक्षया व्यावृत्त्यनुगमात्मकत्वं प्रत्यक्ष प्रतिपन्नं विरोधमध्यास्ते ।
ननु सुखाद्यवस्थानामात्मनोऽत्यन्त भेदात्तद्व्यावृत्तावण्यात्मनः किमायातं येनास्यापि व्यावृत्त्यात्मकत्वं स्यात् ? इत्यप्यपेशलम् ; सुखाद्यात्मनोरत्यन्तभेदस्य प्रथमपरिच्छेदे प्रतिविहितत्वात् । ननु चाकारवैलक्षण्येप्यात्मसुखादीनामनानात्वे अन्यत्राप्यन्यतोऽन्येस्यान्यत्वं न स्यात् तदप्यविचारितरमणीयम्; तद्वत्तादात्म्येना- १० न्यायस्य प्रमाणतोऽप्रतीतेः । प्रतीतौ तु भवत्येवाकारनानात्वेप्यनानात्वम् प्रत्यभिशाज्ञानवत्, सामान्यविशेषवत् संशयज्ञानवत्, मेचकज्ञानवद्वेति ।
"
;
;
यच्चोक्तम्- 'द्रव्यादयः षडेव पदार्थाः प्रमाणप्रमेयाः' इत्यादिः तदप्युक्तिमात्रम् द्रव्यादिपदार्थषट्रकस्य विचारासहत्वात् १५ तथाहि यत्तावच्चतुः संख्यं पृथिव्यादिनित्यानित्यविकल्पाहि भेदमित्युक्तम् तदयुक्तम्; एकान्तनित्ये क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् । तल्लक्षणसत्त्वस्यातो व्यावृत्त्याऽसर्वप्रसङ्गात् । यदि हि परमार्णवो द्व्यणुकादिकार्यद्रव्यजननैकस्वभावाः; तर्हि तत्प्रभवकार्याणां सकृदेवोत्पत्तिप्रसङ्गोऽविकलकारणत्वात् ॥ २० प्रयोगः- येsविकलकारणास्ते सकृदेवोत्पद्यन्ते यथा समयोत्पादा बहवोऽङ्कुराः, अविकलकारणाश्चाणुकार्यत्वेनाभिमता भावा इति । तथाभूतानामप्यनुत्पत्तौ सर्वदानुत्पत्तिप्रसक्तिर्विशेषाभावात् ।
नैनु समवाय्यऽसमवायिनिमित्तभेदात्रिविधं कारणम् । यत्र हि २५ कार्य समवैति तत्समवायिकारणम्, यथा ह्यणुकस्याणुद्वयम् । यच्च कार्यकार्थसमवेतं कार्यकारणैकार्थसमवेतं वा कार्यमुत्पादयति तदसमवायिकारणम्, यथा पठारम्भे तन्तुसंयोगः, पट
१ घटे । २ पटस्य । ३ तादात्म्ये । ४ पूर्वोत्तर पर्यायज्ञानद्वयाकारवत् । ५ घटादौ । ६ पटादेः । ७ यथा गोत्वं सामान्यमश्वत्वसामान्यापेक्षाया विशेषः । ८ एकान्तनित्यस्य । ९ एकान्तनित्याः । १० अविकलकारणत्वस्य । ११ साधनमसिद्धमिति परः सम्भावयति । १२ पृथग्रूपत्वेनोत्पद्यते । १३ कार्य = पटः तेनैकार्थे तन्तुलक्षणे समवेतं पटम् । १४ कार्यकारणं पटगतरूपादि ( दे: कार्यस्य कारणं पटः ) तेन सह एकार्थसमवेतं तन्तुगतरूपम् ।
77
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org