________________
सू० ४।१०] अर्थस्य सामान्यविशेषात्मकत्वम् ५३५ स्यांसौ विशेषणं नान्यत् । न चैकत्र विरोधो नामास्य द्विष्ठत्वात् , अन्यथा सर्वत्र सर्वदा तत्प्रसङ्गः।
अथ विरुध्यमानत्वविरोधकत्वापेक्षया कर्मकर्तृस्थो विरोधः, विरोधसामा॑न्यापेक्षयोभयविशेषणत्वादिष्ठोभिधीयते । नन्वेवं रूपादेरपि द्विष्ठत्वापत्तिः किन्न स्यात् तत्सामान्यस्यापि द्विष्ठत्वा-५ विशेषात् ? विरोधस्याभावरूपत्वे सामान्यविशेषत्वाभावानुपपत्तिश्च । गुणरूपत्वे गुणविशेषणत्वाभावानुषङ्गः।। ___ अथ षट्पदार्थव्यतिरिक्तत्वात् पदार्थविशेषो विरोधोऽनेकस्थो विरोध्यविरोधकप्रत्ययविशेषप्रसिद्धः समाश्रीयते; तदाप्यस्यासम्बद्धस्य द्रव्यादौ विशेषणत्वम्, सम्बद्धस्य वा? न तावदसम्ब-१० द्धस्य; अतिप्रसङ्गात् , दण्डादौ तथाऽप्रतीतेश्च । न खलु पुरुषेणासम्बद्धो दण्डस्तस्य विशेषणं प्रतीतो येनात्रापि तथाभावः। अथ सम्बद्धः किं संयोगेन, समवायेन, विशेषणभावेन वा? न ताव त्संयोगेन, अस्याद्रव्यत्वेन संयोगानाश्रयत्वात् । नापि समवायेन; अस्य द्रव्यगुणकर्मसामान्यविशेषव्यतिरिक्तत्वेनासमवायित्वात् ।१५ नापि विशेषणभावेन; सम्बन्धान्तरेणासम्बद्ध वस्तुनि विशेषण. भावस्याप्यसम्भवात् , अन्यथा दण्डपुरुषादौ संयोगादिसम्बन्धाभावेपि स स्यात् इत्यलं संयोगादिसम्बन्धकल्पनाप्रयासेन । 'विरोध्यविरोधकप्रत्ययविशेषस्तु विशिष्टं वस्तुधर्ममेवालम्बते' इति वक्ष्यते समवायसम्बन्धनिराकरणप्रक्रमे । ततो विरोधस्य २० विचार्यमाणस्यायोगान्नानयोरसौ घटते । ___नापि वैयधिकरण्यम् ; निर्वाधबोधे भेदाभेद्योः सत्त्वासत्त्वयोवो एकाधारतया प्रतीयमानत्वात् ।
१ शीतद्रव्यस्योष्णद्रव्यस्य वा। २ उष्णद्रव्यं शीतद्रव्यं वा। ३ उष्णद्रव्ये शीतद्रव्ये वा । ४ तथा च घटस्य सद्रूपतावत् (सत्तासम्बन्धात्सद्रूपाणीति भावो वैशेषिकमते) रूपादिस्वभावतापि न स्यात् , न चैतद्युक्तं प्रतीतिविरोधात् । ५ विरुध्यमानः शीतः। ६ विरोधकः उष्णः । ७ विरोध्यविरोधकमावसम्बन्धापेक्षया। ८ नतु विशेषापेक्षया यतः कर्तृस्थो विरोधो हि कर्मणि नास्ति कर्मस्थः कर्तरि नास्तीत्यद्विष्ठो विशेषापेक्षयेति भावः। ९ विरोधप्रकारेण। १० भावानां विरोधकत्वापत्तिः। ११ विरोधस्याभावरूपत्वं मा भूद्गुणरूपत्वं स्यादित्युक्ते आहाचार्यः। १२ गुणा निर्गुणा इति वचनाच्छीतोष्णस्पर्शयोर्गुणरूपयोर्विरोधो गुणरूप इति विशेषणत्वमस्य न घटतेऽन्यथा। १३ सह्यो विन्ध्यं प्रति विशेषणं स्यादसम्बद्धत्वाविशेषात् । १४ असम्बद्धविशेषणत्व. प्रकारेण । १५ असम्बद्धत्वप्रकारेण। १६ पञ्चसु पदार्थेषु समवायोस्ति यतः। १७ प्रत्ययो-शानम् । १८ वस्तुनोऽव्यतिरिक्तमभावरूपं विरोधमवलम्बते न तु व्यतिरिक्तम् । १९ भेदाभेदयोः सत्त्वासत्त्वयोः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org