________________
प्रमेयकमलमार्तण्डे [४. विषयपरि० तेषां न विरुध्यते मातुलिङ्गद्रव्ये रूपादिवत्। धर्मधर्मिणोस्तु विरोधे धर्मिणि धर्माणां प्रतीतिरेव न स्यात्, न चैवम् , अबाघबोधाधिरूढप्रतिभासत्वात्तत्र तेषाम् । वध्यघातकभावोपि विरोधः फणिनकुलयोरिव बलवदबलवतोः प्रतीतः सत्त्वा५सत्त्वयोर्भेदाभेदयोर्वा नाशङ्कनीयः; तयोः समानबलत्वात् ।
अस्तु वा कश्चिद्विरोधः; तथाप्यसौ सर्वथा, कथञ्चिद्वा स्यात् ? न तावत्सर्वथा; शीतोष्णस्पर्शादीनामपि सत्त्वादिना विरोधासिद्धेः। एकाधारतया चैकस्मिन्नपि हि धूपदहनादिभाजने क्वचित्प्र
देशे शीतस्पर्शः क्वचिच्चोष्णस्पर्शः प्रतीयत एव। अथानयोः १० प्रदेशयोर्भेद एवेष्यते; अस्तु नामानयोर्भेदः, धूपदहनाद्यवयवि.
नस्तु न भेदः । न चास्य शीतोष्णस्पर्शाधारता नास्तीत्यभिधातव्यम् । प्रत्यक्षविरोधात्। तन्न सर्वथा विरोधः । कथञ्चिद्विरोधंस्तु सर्वत्र समानः।
किञ्च, भावेभ्योऽभिन्नः, भिन्नो वा विरोधः स्यात् ? न १५तावत्तेभ्योऽभिन्नो विरोधो विरोधको युक्तः, स्वात्मभूतत्वात्तत्वरूपवत्, विपर्ययानुषङ्गो वा । अथ भिन्नः; तथापि न विरोधकः, अनात्मभूतत्वादर्थान्तरवत् । अथार्थान्तरभूतोपि विरोधो विरोधको भावानां विशेषणभूतत्वात्, न पुनर्भावान्तरं
तस्य तद्विशेषणत्वाभावात्। तदप्यसमीचीनम्; विरोधो हि २० तुच्छरूपोऽभावः, स यदि शीतोष्णद्रव्ययोर्विशेषणं तर्हि तयोरेद
र्शनापत्तिस्तत्सम्बद्धरूपत्वात् । असम्बद्धस्य च विशेषणत्वेऽतिप्रसङ्गात्। अन्यतरविशेषणत्वेप्येतदेव दूषणम् । तदेव च विरोधि स्याद्य
१ जैनमते । २ प्रदीपादौ। ३ स्वपरप्रकाशादीनाम् । ४ सत्त्वादिरूपाव्यवच्छेदतः । ५ शीतस्पर्शः सन्नष्णस्पर्शः सन्नित्यादिना धर्मेण । ६ शीतोष्णस्पर्शादयो न विरुद्धा एकाधारतया प्रतीयमानत्वात् , यत्तथा प्रतीयते न तत्सर्वथा विरुद्धं यथा रूपरसादि, एकतुलायां नामोन्नामादिर्वा, एकाधारतया प्रतीयन्ते च धूपदहनादौ शीतोष्णस्पर्शादय इति । ७ परेण । ८ भावानामसाधारणस्वरूपप्रकारेण। ९ घटाकारस्य पटेऽभावात् । १० घटपटादौ घटपटरूपादौ वा। ११ भावा अपि विरोधस्य विरोधकाः कुतो न भवेयुर्विरोधादभिन्नत्वाविशेषात् ?। १२ भावा विशेष्याविरोधो विशेषणमनयोभीवयोर्विरोध इति । १३ घटपटादिरूपः । १४ विवादापन्ने शीतोष्णद्रव्ये धर्मिणी न दृश्येते इति साध्यो धर्मः, अभावसम्बद्धरूपत्वात् कन्चित्प्रदेशे घटवत् । १५ शीतोष्णद्रव्ययोर्मध्ये शीतद्रव्यस्योष्णद्रव्यस्य वा। १६ शीतोष्णद्रन्ययोर्मध्ये । १७ विरोधस्य । १८ अदर्शनापत्तिलक्षणम् । १९ द्वितीयम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org