________________
५१४ प्रमेयकमलमार्तण्डे [४. विषयपरि०
तत्र कार्यात्कारणत्वावगमेऽनुमानाच्छत्यवगम: स्यात्। तत्रापि शक्तिकार्ययोः प्रतिवन्धेप्रतीतिर्न प्रत्यक्षादेः; उक्तदोषानुषङ्गात् । अनुमानात्तद्वगमेऽनवस्थेतरेतराश्रयानुषङ्गो वा स्यात् । एतेन तृतीयोपि पक्षश्चिन्तित इति । ५ तदेतत्सर्वमसमीचीनम् ; सम्बन्धस्याध्यक्षेणैवार्थानां प्रतिभासनात्; तथाहि-पटस्तन्तुसम्बद्ध एवावभासते, रूपादयश्च पटादिसम्बद्धाः । सम्बन्धाभावे तु तेषां विलिष्टः प्रतिभासः स्यात् , तेमन्तरेणान्यस्य संश्लिष्टप्रतिभासहेतोरभावात् । कथं च
सम्बन्धे प्रतीयमानेऽप्रतीयमानस्याप्यसम्बन्धस्य कल्पना प्रेती. १०तिविरोधात् ? अर्थक्रियाविरोधश्च, अणूनामन्योन्यमसम्बन्धतो
जलधारणाहरणाद्यर्थक्रियाकारित्वानुपपत्तेः । रज्जुवंशदण्डादीनामेकदेशाकर्षणे तदन्याकर्षणं चासम्बन्धवोदिनो न स्यात् । अस्ति चैतत्सर्वम् । अतस्तदन्यथानुपपत्तेश्चासौ सिद्धः।
यच-पारतन्त्र्यं हि' इत्याधुक्तम् । तदप्ययुक्तम् ; एकत्वपरि१५णतिलक्षणपारतन्यस्यार्थीनी प्रतीतितः सुप्रसिद्धत्वात्, अन्य
थोक्तदोषानुषेङ्गः । न चार्थानां सम्बन्धः सर्वात्मनैकदेशेन वाभ्युपगम्यते येनोक्तदोषः स्यात् प्रकारान्तरेणैवास्याभ्युपगमात् । सर्वात्मैकदेशाभ्यां हि तस्यासम्भवात् प्रकाराँन्तरस्य वा भावात् , तत्प्रतीत्यन्यथानुपपत्तेश्च ताभ्यां जात्यन्तरतया श्लेषः २० स्निग्धरूक्षतानिबन्धनो बन्धोऽभ्युपगन्तव्योऽसौ सक्तुतोयादिवत् । विश्लिष्टरूपतापरित्यागेन हि संश्लिष्टरूपतया कथञ्चिदन्यथात्वलक्षणैकत्वपरिणतिः सम्बन्धोऽर्थानां चित्रसंबेदने नीलाद्याकारवत् । न हि चित्रसंविदो जात्यन्तररूपैतयोत्पादा
१ धूमादेः। २ अग्नयादेः । ३ कार्यकारणभावरूपेण। ४ अनुमानेन वासौ कार्यकारणभावः प्रतीयते इति । ५ बौद्धोक्तम् । ६ कथमर्थानां सम्बन्धस्याध्यक्षेण प्रतिभासनमित्युक्ते सत्याह । ७ अवभासन्ते । ८ पटादेः सकाशाद्भिन्नः । ९ अन्यः कश्चित्संश्लिष्टप्रतिभासहेतुभविष्यतीत्युक्ते सत्याह । १० प्रत्यक्षेण । ११ अर्थानाम् । १२ अन्यथेति शेषः। १३ असम्बन्धपक्षे। १४ अन्यस्य शेषसकलभागस्य । १५ सौगतस्य । १६ परस्परमसम्बद्धत्वात् । १७ मा भवत्वित्युक्ते सत्याह । १८ अनुमानतः। १९ स्कन्धरूपेण । २० बाह्याध्यात्मिकानाम्। २१ तव सौगतस्य स्यात् । २२ जैनेः । २३ सौगतोक्त । २४ पिण्डोणुमात्रः स्यादित्यादिः । २५ कथं तहि सम्बन्ध इत्युक्ते सत्याह । २६ जैनैः। २७ अपरप्रकारस्य । २८ प्रकारान्तरत्वेन । २९ परेण । ३० एकलोलीभावात्मलक्षणया । ३१ पर्यायरूपेण । ३२ आदौ दघिगुडौ पृथक् तिष्ठतः पश्चात्संयोगेन कृत्वाऽन्यथास्वभावं पर्यायरूपं पानकं जातमिति । ३३ शानस्य । ३४ कथञ्चिन्नीलाकारेभ्योऽशक्यविवेचनत्वेन । ३५ उत्पत्तेः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org