________________
सू० ४।६] सम्बन्धसद्भाववाद:
५१३ अथ 'अग्न्यभावे धूमस्य भावे तद्धेतुकताविरहात्सकृदप्यहेतो. रग्नेस्तस्य भावो न स्यात् ,, दृश्यते च महानसादावैग्नितः, ततो नानग्नेधूमसद्भावः' इति प्रतिबन्धसिद्धिरित्यभिधीयते; तदप्यभिधानमात्रम्; यथैव हीन्धनादेरेकदा समुद्भूतोप्यग्निः अन्यदारणि निर्मथनात् मण्यादेर्वा भवन्नुपलभ्यते, धूमो वाग्नितो५ जायमानोपि गोपालघटिकादौ पावकोद्भूतधूमादप्युपजायते, तथा 'अग्न्यभावेपि कदाचिद्भुमो भविष्यति' इति कुतःप्रतिबन्धसिद्धिः? अथ 'यादृशोग्निरिन्धनादिसामग्रीतो जायमानो दृष्टो न तादृशोऽरणितो मण्यादेर्वा । धूमोपि यादृशोनितो न तादृशो गोपालघटिकादौ वह्निप्रभवधूमात्, अन्यादृशात्तादृशंभावेतिप्रसङ्गात्' १० इति नाग्निजन्यधूमस्य तत्सदृशस्य चानग्नेर्भावः। भावे वा ताहशधूमजनकस्याग्निस्वभावतैव इति न व्यभिचारः। तदुक्तम्
"अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः। अथानग्निखभावोसौ धूमस्तत्र कथं भवेत् ॥"
- [प्रमाणवा० ३॥३५] इत्यादि । १५ तदेतद्वक्तृत्वेपि समानम्-'तद्धि सँर्वशे वीतरागे वा यदि स्यात्, असर्वज्ञाद्रागादिमतो वा कदाचिदपि न स्यादहेतोः सकृदप्यसम्भवात्, भवति च तत्ततः, अतो न सर्वशे तस्य तत्सदृशस्य वा सम्भवः' इति प्रतिबन्धसिद्धिः ।
किञ्च, कार्यकारणभावः सकलदेशकालावस्थिताखिलाग्निधूम-२० व्यक्तिकोडीकरणेनावगतोऽनुमाननिमित्तम् , नान्यथा । न च निर्विकल्पकसविकल्पकप्रत्यक्षस्येयति वस्तुनि व्यापारः, प्रत्यक्षा. नुपलम्भयो ।
किञ्च, कार्योत्पादनशक्तिविशिष्टत्वं कारणत्वम् । न चासौ शक्तिः प्रत्यक्षावसेया किन्तु कार्यदर्शनगम्या, "शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः"
[मी० श्लो० शून्यवाद श्लो० २५४ ] इत्यभिधानात् ।
२५
१ धूमोग्नेः कार्य न भवतीति भावः। २ तस्य भावः। ३ अनेन प्रकारेण । ४ कार्यकारणयोरविनाभावसिद्धिः। ५ जैनादिना भवता । ६ सूर्यकान्तादेः । ७ धूमाग्निलक्षणकार्यकारणयोः। ८ मतम् । ९ न दृष्ट इति संबन्धः। १० वहिप्रभवधूम । ११ जलादग्निसद्भावप्रसङ्गात् । १२ अर्थस्य । १३ धूमामिलक्षणकार्यकारणयोः। १४ तर्हि । १५ कुतः । १६ वक्तृत्वस्य । १७ वक्तृत्वस्यासर्वशत्वादिना। १८ आवृत्तत्वेन एकत्वेन च ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org