________________
सू० ४।६ ]
सम्बन्धसद्भाववादः
५१५
दन्यो नीलाद्यनेकाकारैः सम्बन्धः, सर्वात्मनैकदेशेन वा तैस्तस्याः सम्बन्धे प्रोक्तीशेषदोषानुषङ्गाविशेषात् ।
स चैवंविधः सम्बन्धोर्थानां केचिन्निखिलप्रदेशानामन्योन्यप्रदेशानुप्रवेशतः - यथा सक्कुतोयादीनाम्, क्वचित्तु प्रदेशसंष्टितामात्रेण यथाङ्गुल्यादीनाम् । न चान्तर्बहिर्वा सांशवस्तुवादिनः ५ सांशत्वानुषङ्गो दोषाय; इष्टत्वात् । न चैवमनवस्था; तद्वतस्तत्प्रदेशानामत्येन्त भेदाभावात् । तद्भेदे हि तेषामपि तद्वता प्रदेशान्तरैः सम्बन्ध इत्यनवस्था स्यात् नान्यथ, अनेकान्तात्मकवस्तुनोऽत्यन्तभेदाभेदभ्यां जात्यन्तरत्वाच्चित्रसंवेदनवदेव ।
नैन्वेवं परमाणूनामप्यंशवत्त्वप्रसङ्गः स्यात् । इत्यप्यनुत्तरम् ; १० यतोऽत्रांशशब्दः स्वभावार्थः, अवयवार्थो वा स्यात् ? यदि स्वभावर्थः न कश्चिद्दोषस्तेषां विभिन्न दिग्विभागव्यवस्थितानेकाणुभिः सम्बन्धान्यथानुपपत्त्या तावद्धा स्वभावभेदोपपत्तेः । अवयवार्थस्तु तत्रासौ नोपपद्यते; तेषामभेद्यत्वेनावयवासम्भवात् । न चैवं तेषामविभागित्वं विरुध्यते, यतोऽविभागित्वं भेदयितुमशक्यत्वं १५ न पुनर्निःस्वभावत्वम् ।
•
यत्तूक्तम्- 'निष्पन्नयोर निष्पन्नयोर्वा पारतन्त्र्यलक्षणः सम्बन्धः स्यात्' इत्यादिः तदप्यसारम् ; कथञ्चिन्निष्पन्नयोस्तदभ्युपगमात् । पेटो हि तन्तु द्रव्यरूपतया निष्पन्न एव अन्वयिनो द्रव्यस्य पटपरिणामोत्पत्तेः प्रागपि सत्त्वात्, स्वैरूपेण त्वनिष्पन्नः, तन्तुद्रव्यमपि २० स्वरूपेण निष्पन्नं पटपरिणामरूपतयाऽ निष्पन्नम् । तथाङ्गुल्यादिद्रव्यं स्वरूपेण निष्पन्नम् संयोगपरिणामात्मकत्वेना निष्पन्नमिति ।
किञ्च, पारतनयस्याऽभावाद्भावानां सम्बन्धाभावे तेन व्याप्तः क्वचित्सम्बन्धः प्रेसिद्धः, न वा ? प्रसिद्धश्चेत् कथं सर्वत्र सर्वदा सम्बन्धाभावः विरोधात् ? नो चेत् कथमव्यापकाभावादव्यौप्य २५ स्याभावसिद्धिरंतिप्रसङ्गीत ?
;
भिन्नः । २ सौगतेन । ३ पिण्डोणुमात्रः स्यादित्यादि । ४ सांशत्वादि । ५ इति प्रतिबन्धविधानम् । ६ सम्बन्धिनि पदार्थे । ७ भवति ।
९
८ सम्बन्धमात्रेण । जैनस्य । १० पदार्थात् । ११ सर्वथा । १२ कथञ्चिद्भेदे । १३ अन्तो धर्मः, कथञ्चिद्भेदाभेदरूपस्य । १४ सर्वथानेकत्वैकत्वाभ्याम् । १५ सांशवस्तुप्रकारेण । १६ तर्हि । १७ स्वभावभेदाऽभावे । १८ स्वभावभेदसम्भवे । १९ कथम् । २० तन्त्वादेः । २१ पटरूपेण । २२ पटः । २३ भावानां सम्बधो नास्ति पारख्याभावात् । २४ दृष्टान्ते । २५ ज्ञातः । २६ ज्ञातत्वस्य । २७ अथ न प्रसिद्धस्तहिं । २८ असाध्य । २९ असाधनस्य । ३० अन्यथा । ३१ घटाभावे पटाभावप्रसङ्गात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org