SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ सनात? सू० ४।६] सम्बन्धसद्भाववादः ५०५ धात् । तयोरैक्ये वा सुतरां सम्बन्धाभावः, सम्बन्धिनोरभावे सम्बन्धायोगात् द्विष्ठत्वात्तस्य । अथ नैरन्तर्य तयो रूपश्लेषः; ने; अस्यान्तरालाभावरूपत्वेनाऽतात्त्विकत्वात् सम्बन्धरूपत्वायोगः । निरन्तरतायाश्च सम्बन्धरूपत्वे सान्तरतापि कथं सम्बन्धो न स्यात् ? किञ्च, असौ रूपश्लेषः सर्वात्मना, एकदेशेन वा स्यात् ? सर्वात्मना रूपश्लेषे अणूनां पिण्डः अणुमात्रः स्यात् । एकदेशेन तच्छेषे किमेकदेशास्तस्यात्मभूताः, परभूताः वा? आत्मभूताश्चेत्, न एकदेशेन रूपश्लेषस्तभावात् । परभूताश्चेत्, तैरप्यणूनां सर्वात्मनैकदेशेन वा रूपश्लेषे स एव पर्यनुयोगोनवस्था १० च स्यात् । तदुक्तम् "रूपश्लेषो हि सम्बन्धो द्वित्वे स च कथं भवेत्।। तस्मात्प्रंकृतिभिन्नानां सम्बन्धो नास्ति तत्त्वतः॥२॥" [सम्बन्धपरी०] किञ्च, परोपेक्षैव सम्बन्धः, तस्य द्विष्ठत्वात् । तं चापेक्षते १५ भावः स्वयं सन् , असन्वा ? न तावदसन् ; अपेक्षाधर्माश्रयत्वविरोधात् खरशृङ्गवत् । नापि सन् ; सर्वनिराशंसत्वात्, अन्यथा सत्त्वविरोधात् । तन्न परापेक्षा नाम यद्रूपः सम्बन्धः सिद्ध्येत् । "परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते । संश्च सर्वनिराशंसो भावः कथमपेक्षते ॥ ३॥" [सम्बन्धपरी०] किञ्च, असौ सम्बन्धः सम्बन्धिभ्यां भिन्नः, अभिन्नो वा? यद्यभिन्नः; तदा सम्बन्धिनावेव न सम्बन्धः कश्चित् , स एव वा न ताविति । भिन्नश्चेत्, सम्बन्धिनौ केवलो कथं सम्बधौ(द्धौ )२५ स्याताम् ? भवतु वा सम्बन्धोर्थान्तरम्; तथापि तेनैकेन सम्बन्धेन सह द्वयोः सम्बन्धिनोः कः सम्बन्धः? यथा सम्बन्धिनोयथोक्तदोषान्न कश्चित्सम्बन्धस्तथात्रापि । तेनानयोः सम्बन्धा १ इति चेदित्युपरितः । २ अन्तरालाभावो नैरन्तर्यमिति । ३ तुच्छभावरूपत्वाद. भावस्य । ४ निरन्तरतावत्पदार्थद्वयापेक्षत्वाविशेषात् । ५ अंशाः। ६ निरंशत्वादणोः। ७ सम्बन्धिनोः। ८ प्रकृत्या स्वभावेन । ९ अणूनाम् । १० सम्बन्धलक्षणः । ११ सर्वेषु निराकक्षित्वात् । १२ परमपेक्षते चेत् । १३ परम् । १४ सम्बन्धरहितो। १५ सम्बन्धिभ्याम् । प्र० क० मा० ४३ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy