________________
प्रमेयकमलमार्तण्डे [४. विषयपरि० स्यात् । न चार्थक्रियामन्तरेण हेतुः स्वरूपेण कदाचिदप्युपलब्धः परैः स्वरूपसत्त्वप्रसङ्गात् ।।
अर्थक्रियायाश्चापरार्थक्रिया यदि सत्त्वव्यवस्थापिका; तदानवस्था। न चार्थक्रियाऽनधिगतसत्त्वस्वरूपापि हेतुसत्त्वव्यवस्था५पिका, अश्वविषाणादेरपि तत्सत्त्वव्यवस्थापकत्वानुषङ्गात् । न च हेतुजन्यत्वादर्थक्रिया सती नार्थक्रियान्तरोदयात्, इत्यभिधातव्यम्। इतरेतराश्रयानुषङ्गात्-हेतुसत्त्वाध्यऽर्थक्रिया सती, तत्सत्त्वाच्च हेतोः सत्त्वमिति ।
अस्तु वार्थक्रियालक्षणं सत्त्वम् । तथाप्यतोर्थानां क्षणस्थायिता १० क्षणिकत्वं साध्येत, क्षणादूर्द्धमभावो वा? प्रथमपक्षे सिद्धसाध्यता, नित्यस्याप्यर्थस्य क्षणावस्थित्यभ्युपगमात् । कथमन्यथास्य सदावस्थितिः क्षणावस्थिति निवन्धनत्वात् क्षणान्तराद्यव. स्थितेः ? अथ क्षणादूर्द्धमभावः साध्यते; तन्न; अभावेन सहास्य
प्रतिबन्धासिद्धः । न चाप्रतिबन्धविषयोऽश्वविषाणादिवद. १५ नुमेयः । तन्न सत्त्वादप्यर्थानां क्षणिकत्वावगतिः। . नापि कृतकत्वात्; उक्तप्रकारेण क्षणिके कार्यकारणभावप्रतिषेधतः कृतकस्याऽसिद्धस्वरूपत्वेन तद्वगतिं प्रत्यनङ्गत्वात् । ततः प्रतीत्यनुरोधेन स्थिरः स्थूलः साधारणस्वभावश्च भावो. भ्युपगन्तव्यः। २० ननु चाणूनामयःशलाकाकल्पत्वेनान्योन्यं सम्बन्धाभावतः स्थूलादिप्रतीतेन्तत्वात्कथं तद्वशात्तत्स्वभावो भावः स्यात् ? तथाहि-सम्बन्धोर्थानां पारतन्यलक्षणो वा स्यात्, रूपश्लेष. लक्षणो वा स्यात् ? प्रथमपक्षे किमसौ निष्पन्नयोः सम्बन्धिनोः
स्यात्, अनिष्पन्नयोर्वा ? न तावदनिष्पन्नयोः; स्वरूपस्यैवाऽसत्त्वात् २५शशाश्वविषाणवत् । निष्पन्नयोश्च पारतन्याभावादसम्बन्ध एव । उक्तञ्च"पारतत्र्यं हि सम्बन्धः सिंद्ध का परतन्त्रता। तस्मात्सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः॥१॥"
[सम्बन्धपरी०]] ३० नापि रूपश्लेषलक्षणोसौ सम्बन्धिनोत्वेि रूपश्लेषविरो
१ अर्थक्रियाकारणम् । २ सौगतैः। ३ अनुमानत्रयेण क्षणिकत्वं पदार्थानां न सिध्यति यतः। ४ रूपरसगन्धस्पर्शपरमाणूनां सजातीयविजातीयव्यावृत्तानां परस्परमसम्बद्धानाम् । ५ सम्बन्धिनि । ६ सह्यविन्ध्ययोरिव । ७ अन्योन्यस्वभावानुप्रवेशलक्षणः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org