________________
सू० ४।६ ]
५०३
स्प्रदीपादिक्षणाद वर्तिकादाहतैलशोषादिविचित्रकार्याणि शक्तिभेदनिमित्तकानि व्यवतिष्ठन्ते, अन्यथा रूपादेरपि नानात्वं न स्यात् ।
क्षणभङ्गवादः
.
ननु च शक्तितोऽर्थान्तरानर्थान्तरपक्षयोः शक्तीनामघटनात्तासां परमार्थसत्त्वाभावः तर्हि रूपादीनामपि प्रतीतिसि ५ द्धद्रव्यादर्थान्तरानर्थान्तरविकल्पयोरसम्भवात्परमार्थसत्त्वाभावः स्यात् । प्रत्यक्षबुद्धौ प्रतिभासमानत्वाद्रूपादयः परमार्थसन्तो न पुनस्तच्छक्यस्तासामनुमानबुद्धौ प्रतिभासमानत्वात् इत्यप्ययुक्तम्; क्षणक्षयस्वर्गप्रापणशक्त्यादीनामपरमार्थसत्त्वप्रसङ्गात् । ततो यथा क्षणिकस्य युगपदनेककार्यकारित्वेप्येकत्वाविरोधः, १० तथाऽक्षणिकस्य क्रमशोनेक कार्यकारित्वे पीत्यनवद्यम् ।
यच्चार्थक्रियालक्षणं सत्त्वमित्युक्तम् ; तत्र लक्षणशब्दः कारणार्थः, स्वरूपार्थः, ज्ञापकार्थो वा स्यात् ? प्रथमपक्षे किमर्थक्रिया लक्षणं कारणं सत्त्वस्य तद्वार्थक्रियायाः ? तंत्रार्थक्रियातः सत्त्वस्योत्पत्तौ प्राक् पदार्थानां सत्त्वमन्तरेणाप्यस्याः प्रादुर्भावान्नि- १५ तुकत्वं निराधारकत्वं वानुषज्येत । अथ संत्त्वादर्थक्रियोत्पद्यते; तदर्थक्रियातः प्रागपि सत्त्वसिद्धेर्भावानां स्वरूपसत्त्वमायातम् ।
अथ स्वरूपार्थोसौ; तत्रापि तद्धेतोरसत्त्वप्रसङ्गः, न हार्थक्रियाकाले तद्धेतुर्विद्यते । न चान्यकालस्यास्यान्यकाला सा स्वरूपमतिप्रसङ्गात् ।
नापि ज्ञापकार्थोसौ; अर्थक्रियाकालेर्थस्यासत्त्वादेव | असतश्वास्यातः कथं सत्ताज्ञप्तिरतिप्रसङ्गीत् ? न चार्थक्रियोदेयात्प्राक् कारणमासीदिति व्यवस्थापयितुं शक्यम् । यतो यदि स्वरूपेण पूर्व हेतुरवगतो भवेत्तदनन्तरं चार्थक्रिया, तदार्थक्रिया प्रतिपन्नसम्बन्धोपलभ्यमाना प्राग्धेतुसत्तां व्यवस्थापयतीति २५
१ आदिना स्वपरप्रकाशनादिग्रहणम् । २ अर्थात्सकाशात् । ३ भिन्नाश्चेत्तस्येति सम्बन्धाभावः । सम्बन्धसिद्ध्यर्थमुपकारकल्पनेऽनवस्था । अभिन्नाश्चेच्छक्तय एव शक्तिमन्त एव वा स्युः । ४ तस्य प्रदीपस्य | ५ साधनं विचार्यते । ६ लक्ष्य जन्यते कार्यमनेनेति लक्षणं कारणमित्यर्थः -- अनेकार्थत्वाद्धातूनाम् । ७ सत्त्वस्य । ८ सत्त्वस्य । ९ द्वयोः पक्षयोर्मध्ये । १० कारणभूतात् । ११ सर्वथा क्षणिकत्वात् । १२ न हि स्वरूपिस्वरूपयोः कालभेदो यतः । १३ गगनकुसुमादेरपि शापकत्व - प्रसङ्गात् । १४ अर्थक्रिया = खानपानादिः । १५ जलादिलक्षण: अर्थक्रियायाः । १६ कारणेन सह ।
Jain Educationa International
२०
For Personal and Private Use Only
www.jainelibrary.org