________________
५०२
प्रमेयकमलमार्तण्डे [४. विषयपरि० बुद्धचित्तं प्रति सन्तानान्तरचित्तस्याकारणत्वान्न तेषामव्यभिचारी कार्यकारणभावः इति चेत्, यतः प्रभृति तेषां कार्यकारणभावस्तत्प्रभृतितस्तस्याव्यभिचारात्, अन्यथाऽस्याऽसर्वशत्वं स्यात् । “नाकारणं विषयः" [ ] इत्यभ्युपगमात् । ५ अव्यभिचारेण कार्यकारणभूतत्वाविशेषेपि प्रत्यासत्तिविशेषवशात्केषाश्चिदेवोपादानोपादेयभावो न सर्वेषामिति चेत्, स कोन्योन्यत्रैकद्रव्यतादात्म्यात् ? देशप्रत्यासत्तेः रूपरसादिभिर्वातातपादिभिर्वा व्यभिचारात् । कालप्रत्यासत्तेः एकसमयवर्तिभिः रशेषार्थैरनेकान्तात् । भावप्रत्यासत्तेश्च एकार्थोद्भूतानेकपुरुष. १० विज्ञानैरनेकान्तात् ।।
न चात्रीन्वयव्यतिरेकानुविधानं घटते । न खलु समर्थे कारणे सत्यभवतः स्वयमेव पश्चाद्भवतस्तदन्वयव्यतिरेकानुविधानं नाम नित्यवत् । 'खदेशवत्स्वकाले सति समर्थे
कारणे कार्य जायते नासति' इत्येतावता क्षणिकपक्षेऽन्वयव्यति१५रेकानुविधाने नित्येपि तत्स्यात् , स्वकालेऽनाद्यनन्ते सति समर्थ नित्ये ससमये कार्यस्योत्पत्तेरसत्यऽनुत्पत्तेश्च प्रतीयमानत्वात् । सर्वदा नित्ये समर्थे सति स्वकाले एव कार्य भवत्कथं तदन्वय. व्यतिरेकानुविधायीति चेत् ? तर्हि कारणक्षणात्पूर्व पश्चाचानाधनन्ते तद्भावेऽविशिष्ट क्वचिदेव तदभावसमये भवत्कार्य कथं २० तदनुविधायीति समानम् ?
नित्यस्य प्रतिक्षणमनेककार्यकारित्वे क्रमशोनेकखभावत्वसिद्धेः कथमेकत्वं स्यादिति चेत् ? क्षणिकस्य कथमिति समः पर्यनुयोगः? सं हि क्षणस्थितिरेकोपि भावोऽनेकस्वभावो विचित्र
कार्यत्वान्नानार्थक्षणवत् । न हि कारणशक्तिभेदमन्तरेण कार्य२५ नानात्वं युक्तं रूपादिज्ञानवत् । यथैव हि कर्कटिकादौ रूपादिज्ञानानि रूपादिस्वभावभेदनिबन्धनानि तथा क्षणस्थितेरेकरमा
१ सास्रवम् । २ निरास्रवचित्तोत्पत्तेः। ३ यदैव घटस्तदैव मृत्पिण्ड इति । ४ बुद्धस्य । ५ यत्सुगतानोत्पत्ती कारणं तदेव विषयः। ६ सुगतचित्तानां परस्परम् । ७ अत्रात्मैव एकद्रव्यम् । ८ प्रत्यासत्तिरत्रैक्यम् यत्र यत्र देशप्रत्या. सत्तिस्तत्र तत्रोपादानोपादेयभाव इत्युच्यमाने। ९ भावः स्वरूपम् । १० क्षणिके। ११ पूर्वक्षणे जाग्रद्दशान्त्यचित्ते । १२ उत्तरक्षणस्य प्रबुद्धचित्तस्य । १३ कारणं विना। १४ सौगतेनाङ्गीक्रियमाणे। १५ कारणे। १६ अव्यापकत्वेनाभिमते । १७ क्षणिकस्यानेकस्वभावत्वं नास्त्यतः कथं समः पर्यनुयोग इत्याह । १८ विचित्रकार्यत्वमस्तु न त्वनेकस्वभावत्वमिति सन्दिग्धानकान्तिकत्वे सतीदम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org