SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ५०६ प्रमेयकमलमार्तण्डे [४. विषयपरि० न्तराभ्युपगमे चानवस्था स्यात्तत्रापि सम्बन्धान्तरानुषङ्गात् । तन्न सम्बन्धिनोः सम्बन्धबुद्धिर्वास्तवी तद्व्यतिरेकेणान्यस्य सम्बन्धस्यासम्भवात् । तदुक्तम् "द्वयोरेकाभिसम्बन्धात्सम्बन्धो यदि तद्वयोः। ५ के सम्बन्धोनवस्था च न सम्बन्धमतिस्तथा ॥४॥ ततःतौ च भावौ तदन्यश्च सर्वे ते खात्मनि स्थिताः। इत्यमिश्राः स्वयं भावास्तान मिश्रयति कल्पना ॥५॥" [सम्बन्धपरी०] तौ च भावौ सम्बन्धिनौ ताभ्यामन्यश्च सम्बन्धः सर्वे ते स्वात्मनि स्वखरूपे स्थिताः। तेनामिश्रा व्यावृत्तखरूपाः स्वयं भावास्तथापि तान्मिश्रयति योजयति कल्पना । अत एव तद्वास्तवसम्बन्धाभावेपि तामेव कल्पनामनुरुन्धानैर्व्यवहर्तृभिर्भावानां भेदोऽन्यापोहस्तस्य प्रत्यायनाय क्रियाकारकादिवाचिनः शब्दाः १५प्रयोज्यन्ते-'देवदत्त गामभ्याज शुक्लां दण्डेन' इत्यादयः । न खलु कारकाणां क्रियया सम्बन्धोस्ति; क्षणिकत्वेन क्रियाकाले कारकाणामसम्मवात् । उक्तञ्च "तामेव चानुरुन्धानैः क्रियाकारकवाचिनः। भावभेदप्रतीत्यर्थ संयोज्यन्तेभिधायकाः॥६॥" २० [सम्बन्धपरी०] कार्यकारणभावस्तर्हि सम्बन्धो भविष्यति; इत्यप्यसमीचीनम्। कार्यकारणयोरसहभावतस्तस्यापि द्विष्ठस्यासम्भवात् । न खलु कारणकाले कार्य तत्काले वा कारणमस्ति, तुल्यकालं कार्य कारणभावानुपपत्तेः सव्येतरगोविषाणवत् । तन्न सम्बन्धिनौ २५ सहभाविनौ विद्यते येनानयोर्वर्तमानोसौ सम्बन्धः स्यात् । अद्विष्ठे च भैौवे सम्बन्धतानुपपन्नैव।। ___ कार्ये कारणे वा क्रमेणासो सम्बन्धो वर्तते; इत्यप्यसाम्प्रतम् यतः क्रमेणापि भावः सम्बन्धाख्य एकत्र कारणे कार्य १ स च सम्बन्धिनी च। २ सम्बन्धसम्बन्धिनोः। ३ अन्यथेति शेषः । ४ सम्बन्धः । ५ वासनारूपा कत्रौ। ६ अवास्तवी। ७ कल्पनैव मिश्रयति यतः। ८ स्थिरस्थूलसाधारणाकाररूपः। ९ अगोव्यावृत्तिौः , अघटव्यावृत्तिर्घट इत्यादि । १० कल्पनामवास्तवीं बुद्धिम् । ११ सामान्यसम्बन्धं संदूष्य सम्बन्धविशेष दूषयनाह । १२ क्षणिकत्वात् । १३ कार्यकारणलक्षणौ। १४ कार्यकारणलक्षणे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy