________________
सू० ४।६] . . क्षणभङ्गवादः तभावस्यापि तदैवोपलभ्यमानतयाऽन्यदा चानुपलभ्यमानतया कपालादिवतंत्कार्यतानुषङ्गात् । • अथ घट एव मुद्गरीदिकं विनाशकारणत्वेन प्रसिद्धमपेक्ष्य समानक्षणान्तरोत्पादनेऽसमर्थ क्षणान्तरमुत्पादयति, तदप्यपेक्ष्य अपरमसमर्थतरम्, तदप्युत्तरमसमर्थतमम् , यावद्धटसन्ततेर्नि-५ वृत्तिरित्युच्यते; ननु चात्रापि घटक्षणस्यासमर्थक्षणान्तरोत्पादकत्वेनाभ्युपगतस्य मुद्गरादिना कश्चित्सामर्थ्य विघातो विधीयते वा, न वा? प्रथमविकल्पे कथमभावस्याहेतुकत्वम् ? द्वितीयविकल्पे तु मुद्रादिसन्निपाते तजनकखभावाऽव्याहतौ संमर्थक्षणान्तरोत्पादप्रसङ्गः, समर्थक्षणान्तरजननवभीवस्य भावात्प्राक्तनक्षणवत्।१०
किञ्च, भावोत्पत्तेः प्राग्भावस्याभावनिश्चये तदुत्पादककारणीपादनं कुर्वन्तः प्रतीयन्ते प्रेक्षापूर्वकारिणः तदुत्पत्तौ च निवृत्त. व्यापाराः, विनाशकहेतुव्यापारानन्तरं च शत्रुमित्रध्वंसे सुखदुःखभाजोऽनुभूयन्ते । न चानयोः सद्भावः सुखदुःखहेतुः, ततस्तव्यतिरिक्तोऽभावस्तद्धेतुरभ्युपगन्तव्यः ।
किञ्च, अभावस्यार्थान्तरत्वानभ्युपगमे किं घट एव प्रध्वंसोऽभिधीयते, कपालानि, तदपरं पदार्थान्तरं वा? प्रथमपक्षे घटस्वरूपेऽपरं नामान्तरं कृतम् । तत्स्वरूपस्य त्वविचलितत्वान्नित्यस्वानुषङ्गः। अथैकक्षणस्थायि घटवरूपं प्रध्वंसः, न; एकक्षणस्थायितया तद्रूपस्याद्याप्यप्रसिद्धः । द्वितीयपक्षेपि प्राकपालो २० त्पत्तेः घटस्यावस्थितेः कालान्तरावस्थायितैवास्य, न क्षणिकता। . किञ्च, कपालकाले 'सः, न' इति शब्दयोः किं भिन्नार्थत्वम्, अभिन्नार्थत्वं वा? भिन्नार्थत्वे कथं न नशब्दवाच्यः पदार्थान्तर मभावः? अभिन्नार्थत्वे तु प्रागपि नप्रयोगप्रेसक्तिः। न चानुपलम्भे सति नञ्प्रयोग इत्यभिधातव्यम्। व्यवधानाद्यभावे२५
- १ घटाभावः कार्य भवति मुद्राद्यन्वयव्यतिरेकानुविधायित्वात्। २ सहायमात्रम् । ३ घटस्य घट एव । ४ घटभङ्गलक्षणम् । ५ मुद्रादिकं कर्मत्वेन । ६ भवदुक्तपक्षे । ७ घटस्य । ८ मुद्गरादिकारणजन्यत्वात् । ९ समानक्षणान्तरोत्पादने । १० घटस्य । ११ उत्पादात् । १२ मृच्चकादि । १३ स्वीकरणम् । १४ कस्यचित्पुरुषस्य घटं दृष्ट्या सेहो जायते कस्यचित्तु द्वेषो जायते इति स्वभावद्वययुक्तत्वाद्धट एव शत्रुमित्ररूपः, तस्य प्रध्वंसे। १५ अनेन वाक्येन सहेतुको विनाशोस्तीति दर्शितम् । १६ स मुद्रादिहेतुर्यस्य सः। १७ पटादिकमित्यर्थः। १८ प्रध्वंस इति । १९ गगनादिवत् । २० बहुतरकालम् । २१ यावत् कपालानि । २२ घटे सत्यपि घटो नास्तीति । २३ घटस्य । २४ कर्त्तव्यः । २५ देशकालादिना ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org