SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ ४९४ प्रमेयकमलमार्त्तण्डे [ ४. विषयपरि० स्यात् न तूंदयानन्तरं भावः । न खलु निर्हेतुकस्याश्वविषाणादेः पैदार्थोदयानन्तरमेव भावितोपलब्धा । अथाहेतुकत्वेन ध्वंसस्य सदा सम्भवात्कालाद्यनपेक्षातः पदा र्थोदयानन्तरमेव भावः नन्वेवमहेतुकत्वेन सर्वदा भावात्प्रथम५ क्षणे एवास्य भावानुषङ्गो नोदयानन्तरमेव । न ह्यनपेक्षत्वादहेतुकः कचित्कदाचिच्च भवति, तथाभावस्य सापेक्षत्वेनाहेतुकत्वविरोधिना सहेतुकत्वेन व्याप्तत्वात्, तथा सौगतैरप्यभ्युपगमात् । ननु प्रथमक्षणे एव तेषां ध्वंसे सत्त्वस्यैवासम्भवात्कुतस्तत्प्रच्युतिलक्षणो ध्वंसः स्यात् ? ततः स्वहेतोरेवार्था ध्वंसस्वभावाः १० प्रादुर्भवन्ति इत्यप्यविचारितरमणीयम्; यतो यदि भावहेतोरेव तत्प्रच्युतिः, तदा किमेकक्षणस्थायिभावहे तो स्तत्प्रच्युतिः, कालान्तरस्थायिभावहेतोर्वा ? प्रथमपक्षोऽयुक्तः; एव (क) क्षणस्थायिभावहेतुत्वस्याऽद्याप्यसिद्धेः तत्कृतत्वं तत्प्रच्युतेरसिद्धमेव । द्वितीयपक्षे तु क्षणिकताऽभावानुषङ्गः । १५ किञ्च भावहेतोरेवं तत्प्रच्युतिहेतुत्वे किमसौ भीवजननाप्राक्तत्प्रच्युतिं जनयति, उत्तरकालम्, समकालं वा ? प्रथमपक्षे प्रागभावः प्रच्युतिः स्यान्न प्रध्वंसाभावः । द्वितीयपक्षे तु भावोत्पत्तिवेलायां तत्प्रच्युतेरुत्पत्त्यभावान्न भवहेतुस्तद्धेतुः । तथौ चोत्तरोत्तरकालभाविभाव परिणतिमपेक्ष्योत्पद्यमाना तत्प्रच्युतिः २० कथं भावोदयानन्तरं भाविनी स्यात् ? तृतीयपक्षेपि भावोदयस समयभाविन्या तत्प्रच्युत्या सह भावस्यावस्थानाविरोधान्न कदाचिद्भावेन नष्टव्यम् । कथं चासौ मुद्गरादिव्यापारानन्तरमेवोपलभ्यमाना तदभावे चानुपलभ्यमाना तज्जन्या न स्यात् ? अन्यत्रापि हेतुफलभावस्यान्वयव्यतिरेकानुविधानलक्षणत्वात् । २५ न च मुद्गरादीनां कपालसन्तत्युत्पादे एव व्यापार इत्यभिधातव्यम्; घटादेः स्वरूपेणाविकृतस्यावस्थाने पूर्ववदुपलब्ध्यादिप्रसङ्गात् । न चास्य तदीं स्वयमेवाभावान्नोपलब्ध्यादिप्रसङ्गः; १ अर्थस्य । २ नाशस्य । निर्हेतुकत्वात् । ३ अश्वलक्षण । ४ कालाद्यनपेक्षत्वाविशेषात् । ५ किंतु सर्वदेव भवतीत्यर्थः । ६ कचित्कदाचिद्भवतः पदार्थस्य । ७ कालादिना । ८ अनुत्पन्नत्वात् । ९ अर्थोत्पत्तिकारणात् । १० मृच्चक्रादेः । ११ भावस्य घटादेः । १२ घटादिभावस्य । १३ घटप्रध्वंसस्य । १४ भावोत्पत्ति वेलायां येन कारणेन भावोत्पत्तिर्जाता तस्मिन्नेव समये तेनैव कारणेन घटप्रध्वंसों जायते तदा उभयोः कारणमेकं स्यादिति भावः । च। १६ कपालोत्पत्तौ । १७ मुद्गरादिना सह । १८ न घटप्रच्युतौ । १९ आदिना जलाहरणादिग्रहणम् । २० मुद्गरादिसन्निधानकाले । १५ भावहेतोर्विनाशहेतुत्वाभावें For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy