________________
सू० ४।६ ]
क्षणभङ्गवादः
४९३
अथोच्यते - 'यो यद्भावं प्रत्यन्यानपेक्षः स तत्स्वभावनियतः यथाऽन्त्या कारणसामग्री स्वकार्योत्पादने, विनाशं प्रत्यन्यानपेक्षाच भावाः' इति तदप्युक्तिमात्रम्; हेतोरसिद्धेः । न खलु मुद्गराद्यनपेक्षा घटादयो भावाः प्रमाणतो विनाशमनुभवन्तोनुभूयन्ते प्रतीतिविरोधात् ।
किञ्च, अत्रान्यानपेक्षत्वमात्रं हेतुः, तत्स्वभावत्वे सत्यन्यानपेक्षत्वं वा ? प्रथमपक्षे यवबीजादिभिरनेकान्तो हेतोः, शाल्यङ्करोत्पादन सामग्रीसन्निधानावस्थायां तदुत्पादनेऽन्यानपेक्षाणामप्येषां तद्भावनियमाभावात् । द्वितीयपक्षे तु विशेष्यासिद्धो हेतुः; तत्स्वभावत्वे सत्यप्यन्यानपेक्षत्वासिद्धेः । न ह्यन्त्या कारणसामग्री १० स्वकार्योत्पादनस्वभावापि द्वितीर्येक्षणानपेक्षा तदुत्पादयति, दहनस्वभावो वा वह्निः करतला दिसंयोगानपेक्षो दाहं विदधाति । भागे विशेषणासिद्धं च तत्स्वभावत्वे सत्यन्यानपेक्षत्वम् शृङ्गोत्थशरादीनां क्षणिकस्वभावाभावात् ।
किञ्च, यदि नामाऽहेतुको विनाशस्तथापि यदैव मुद्गरादिव्या - १५ पारानन्तरमुपलभ्यते तदैवासावभ्युपगमनीयो नोदयानन्तरम्, कस्यचित्तदा तदुपलम्भाभावात् । न च मुद्गरादिव्यापारानन्तरमस्योपलम्भात्प्रागपि सद्भावः कल्पनीयः प्रथमक्षणे तस्यानुपलम्भान्मुद्गरादिव्यापारानन्तरमप्यभावानुषङ्गात् । न चान्ते क्षयोपलम्भादादावप्यसावभ्युपगन्तव्यः सैन्तानेनानेकान्तात् ।
किञ्च, उद्यानन्तरध्वंसित्वं भावानाम् भिन्नाभिन्नविकल्पाभ्यामन्येन ध्वंसस्यासम्भवादवसीयते, प्रमाणान्तराद्वा ? तत्रोत्तरविकल्पोऽयुक्तः; प्रत्यक्षादेरुदयानन्तरध्वंसित्वेनार्थ ग्राहकत्वाप्रतीतेः । प्रथम विकल्पे तु भिन्नाभिन्नविकल्पाभ्यां मुद्गराद्यनपेक्षत्वमेवास्य
२०
१ 'भावा धर्मिणः, विनाशस्वभावनियता इति साध्यधर्मः, विनाशं प्रत्यन्यानपेक्षत्वादिति हेतु:' इत्युपरितः । २ साध्याभावे प्रवर्त्तमानत्वात् । ३ विनाशहेतु: । ४ बौद्धमतेऽपि एकस्मिन्क्षणे कारणं कार्यं न करोति यतः । ५ सर्वे भावा विनाशस्वभावनियता इति पक्षस्यैकदेशे भागासिद्धो हेतुरित्यर्थः । ६ महिषमृगादिशृङ्गेऽन्यनिरपेक्षतयोत्थशरीरादीनाम् । ७ एकस्मिन्क्षणे पदार्थ उत्पन्न: द्वितीयक्षणे मुद्गरादिव्यापारमन्तरेण विनश्यतीति नाभ्युपगमनीयं त्वया सौगतेन । ८ तस्य विनाशस्य | ९ मुद्गरादिव्यापारानन्तरं विनाशोस्ति मुद्गरादिव्यापारात्पूर्व ( उत्पत्तिक्षणाद् द्वितीयक्षणे ) मपि विनाशोस्तीत्युक्त आह । १० विनाशस्य । ११ मुद्गरादिव्यापारात्पूर्वक्षणे । १२ मुद्गरादिव्यापारस्यान्ते । १३ मुद्गरादिव्यापारात्पूर्वम् । १४ निर्वाणस्यान्ते उत्तरक्षणोत्पत्तेः क्षयोस्ति, नादौ 1 १५ यद्यदन्ते क्षयि तत्तदादौ क्षयीति । १६ मुद्गरादिना । १७ स्थितिपक्षे उत्पादपक्षे चाग्रे यदुक्तमस्ति तत्सर्वमंत्र द्रष्टव्यम् ॥ प्र० क० मा० ४२
Jain Educationa International
8
For Personal and Private Use Only
www.jainelibrary.org