________________
प्रमेयकमलमार्तण्डे [४. विषयपरि० खरूपादप्रच्युतार्थस्यानुपलम्भानुपपत्तेः । स्वरूपात्प्रच्युतौ वा कथं न कपालकाले मुद्रादिहेतुकं भावान्तरं प्रच्युतिर्भवेत् ?
अथ घटकपालव्यतिरिक्तं भावान्तरं घटप्रध्वंसः, नन्वत्रापि तेन सह घटस्य युगपदवस्थानाविरोधात् कथं तत्तत्प्रध्वंसः? अन्य. ५थोत्पत्तिकालेपि तत्प्रध्वंसप्रसङ्गाद्धटस्योत्पत्तिरेव न स्यात् ।
अन्यानपेक्षतया चाग्नेरुष्णत्ववत्खभावतोऽभावस्य भावे स्थिते. रपि खभावतो भावः किन्न स्यात् ? शक्यते हि तत्राप्येवं वक्तुं कालान्तरस्थायी स्वहेतोरेवोत्पन्नो भावो न तद्भावे भावान्तरमपेक्षते अग्निरिवोष्णत्वे । भिन्नाभिन्न विकल्पस्य चाभाववत् १० स्थितावपि समानत्वात् तत्राप्यन्यानपेक्षया निर्हेतुकत्वानुषङ्गः । तथाहि-न वस्तुनो व्यतिरिक्ता स्थितिस्तद्धेतुना क्रियते; तस्याऽस्थासुतापत्तेः। स्थितिसम्बन्धात्स्थास्तुता; इत्यप्ययुक्तम् स्थितितद्वतोयतिरेकपक्षाभ्युपगमे तावत्तादात्म्यसम्बन्धोऽसँङ्गतः ।
कार्यकारणभावोप्यनयोःसंहभावादयुक्तः । असहभावे वा स्थितेः १५ पूर्व तत्कारणस्यास्थितिप्रसङ्गः । स्थितेरपि स्वकारणादुत्तरकाल
मनाश्रयतानुषङ्गः। अव्यतिरिक्तस्थितिकरणे च हेतुवैयर्थ्यम् । ततः स्थितिखभावनियतार्थस्तद्भावं प्रत्यन्यानपेक्षत्वादिति स्थितम् ।
अहेतुकविनाशाभ्युपगमे च उत्पादस्याप्यऽहेतुकत्वानुषङ्गो विनाशहेतुपक्षनिक्षिप्तविकल्पानामत्राप्यविशेषात्; तथा हि२० उत्पादहेतुः स्वभावत एवोत्पित्सुं भावमुत्पादयति, अनुत्पित्तुं
वा? आद्यविकल्पे तद्धतुवैफल्यम् । द्वितीयविकल्पेपि अनुत्पि. त्सोरुत्पादे गगनाम्भोजादेरुत्पादप्रसङ्गः । खहेतुसन्निधेरेवोत्पि. सोरुत्पादाभ्युपगमे विनाशहेतुसन्निधानाद्विनश्वरस्य विनाशो. प्यभ्युपगमनीयो न्यायस्य समानत्वात् ।
१ पृथुबुध्नोदरांदेः । २ घटलक्षणस्य । ३ घटात् । ४ तृतीयविकल्पः। ५ पदार्थान्तरस्य सदैव सद्भावात् । ६ भिन्नाभिन्नविकल्पाभ्यां यथाऽभावः कारणान्तरनिरपेक्ष (बौद्धमते ) स्तथा ताभ्यां स्थितिरपि कारणनिरपेक्षे (जैनमते ) ति भावः। ७ घटपटयोरिव । ८ सव्येतरगोविषाणवत् । ९ घटस्य । १० स्वकारणस्य क्षणभङ्गुरत्वेन नष्टत्वादिति भावः। ११ घटात् । १२ अव्यतिरिक्तस्थितिकरणे च स्थितिमद्वस्त्वेव कृतं स्यात् , तस्य च स्वहेतुनैव कृतत्वात्स्थितेहें तुना करणमनुपपन्नमित्यस्य वैयर्थ्यम् । १३ स्थितावन्यानपेक्षतया निर्हेतुकत्वं सिद्धं यतः । १४ स्थितिस्वभावम् । १५ भिन्नाऽभिन्नवक्ष्यमाणानाम् । १६ स्वभावत एव भावस्योत्पत्तिसम्भवात् । १७ कारणेन ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org