________________
४८६
प्रमेयकमलमार्तण्डे [४. विषयपरिक . दादिव्यवहारनिबन्धनानां नगरादिव्यवहारनिबन्धनत्वोपपत्तेः, अन्यथा 'षण्णगरी' इत्यादिष्वपि वस्त्वन्तरकल्पनानुषङ्गः।
'ब्राह्मणेन यष्टव्यम्' इत्याद्यागमोपि नात्र प्रमाणम् ; प्रत्यक्षबाधितार्थाभिधायित्वात् तृणाने हस्तियूथशतमास्ते इत्यागमवत् । ५ ननु ब्राह्मण्यादिजातिविलोपे कथं वर्णाश्रमव्यवस्था तन्निबन्धनो वा तपोदानादिव्यवहारो जैनानां घटेत? इत्यप्यसमीचीनम् । क्रियाविशेषयज्ञोपवीतादिचिन्होपलक्षिते व्यक्तिविशेषे तद्व्यवस्थायास्तद्व्यवहारस्य चोपपत्तेः । कथमन्यथा परशुरामेण निःक्षत्री.
कृत्य ब्राह्मणदत्तायां पृथिव्यां क्षत्रियसम्भवः? यथा चानेन निक्ष१०त्रीकृतासौ तथा केनचिनिर्ब्राह्मणीकृतापि सम्भाव्येत । ततः क्रियाविशेषादिनिबन्धन एवायं ब्राह्मणादिव्यवहारः।
एतेनाविगोनतस्त्रैवर्णिकोपदेशोत्र वस्तुनि प्रमाणमिति प्रत्युक्तम् । तस्याप्यव्यभिचारित्वाभावात् । दृश्यन्ते हि बहवस्त्रैवर्णिः
कैरविगानेन ब्राह्मणत्वेन व्यवहियमाणा विपर्ययभाजः । तन्न १५परपरिकल्पितायां जातौ प्रमाणमस्ति यतोऽस्याः सद्भावः स्यात् ।
सद्भावे वा वेश्यापोटकादिप्रविष्टानां ब्राह्मणीनां ब्राह्मण्याभावो निन्दा च न स्यात् जातियतः पवित्रताहेतुः, सा च भवन्मते तदवस्थैव, अन्यथा गोत्वादपि ब्राह्मण्यं निकृष्टं स्यात् । गवादीनां हि चाण्डालादिगृहे चिरोषितानामपीष्टं शिष्टैरादानम्, न तु २० ब्राह्मण्यादीनाम् । अथ क्रियाभ्रंशात्तत्र ब्राह्मण्यादीनां निन्द्यता;
न; तज्जात्युपलम्भे तद्विशिष्टवस्तुव्यवसाये च पूर्ववक्रियाभ्रंशस्याप्यऽसम्भवात् । ब्राह्मणत्वजातिविशिष्टव्यक्तिव्यवसायो ह्यप्रवृ. ताया अपि क्रियायाः प्रवृत्तर्निमित्तम्, स च तदवस्थ एवं
१ नगरषङ्कव्यतिरिक्तं षण्णगरीशब्दवाच्यवस्त्वन्तरम् । २ ब्राह्मण्ये। ३ ब्राह्मण्य । ४ ब्रह्मचारी गृहीत्यादिः । ५ वर्णाश्रमाणां तदधीनत्वात् न तु शूद्रजात्यधीनत्वम् । ६ ब्राह्मणादौ। ७ अतो शायते क्रियाविशेषादिकं चिह्नं दृष्ट्वैव पुरुषेषु क्षत्रियव्यवहारः कृतः । ८ रावणेन । ९ पुनर्बाह्मणेति व्यवहारः क्रियादिविशेषचिह्नं दृष्ट्वैव कृतोस्तीति ज्ञायते। १० क्षत्रियब्राह्मणयोनिराकरणे पुनर्व्यवस्थापने च क्रियादिविशेष एव निब. न्धनमित्यर्थः । ११ आगमनिराकरणपरेण। १२ अविवादतः । १३ यत्र ब्राह्मण्यजातिस्तत्र त्रैवर्णिकोपदेश इति । १४ ब्राह्मण्ये । १५ त्रैवर्णिकशास्त्रोपदेशैः। १६ शूद्राः । १७ गृहप्रासादशालादिस्थानभेदे पाटकशब्दः। १८ इयं ब्राह्मणीति । १९ वेश्यागृहादिप्रवेशात्पूर्ववत् । २० वेश्यादिगृहे । २१ नमस्कारादेः । २२ वेश्यादिगृहादौ।
www.jainelibrary.org
Jain Educationa International
For Personal and Private Use Only