________________
सू० ४/५ ]
ब्राह्मणत्वजातिनिरास:
कारविशेषो वा स्यात्, अध्ययनादिकं वा ? न तावदाकारविशेषः; तस्याब्राह्मणेपि सम्भवात् । अत एवाध्ययनं क्रियाविशेषो वा तत्सहायतां न प्रतिपद्यते । दृश्यते हि शूद्रोपि स्वजातिविलोपादेशान्तरे ब्राह्मणो भूत्वा वेदाध्ययनं तत्प्रणीतां च क्रियां कुर्वाणः । ततो ब्राह्मण्यजातेः प्रत्यक्षतोऽप्रतिभासनात्कथं व्रतबन्धवेदाध्यं ५ यनादि विशिष्टव्यक्तावेव सिद्ध्येत् ?
यदयुक्तम्- 'ब्राह्मणपदम्' इत्याद्यनुमानम् ; तत्र व्यक्तिव्यतिरिक्तैकनिर्मित्ताभिधेयसम्बद्धत्वं तत्पदस्याध्यक्षबाधितम्, कठकलापादिव्यक्तीनां ब्राह्मण्यविविक्तानां प्रत्यक्षतो निश्चयात्, अश्रार्वेणत्वविविक्तशब्दवत् । अप्रसिद्धविशेषणश्च पक्षः न खलु १० व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयाभिसम्बद्धत्वं मीमांसकस्यास्माकं वा वैचित्प्रसिद्धम्, व्यक्तिभ्यो व्यतिरिक्ताव्यतिरिक्तस्य सामान्यस्याभ्युपगमात् ।
४८५
हेतुश्चानैकान्तिकः; सत्ताकाशकालपदे अद्वैतादिपदे वा व्यक्तिव्यतिरिकैक निमित्ताभिधेयसम्बद्धत्वाभावेपि पदत्वस्य भावात् । १५ तंत्रापि तत्सम्बद्धत्वकल्पनायाम् सामान्यवत्त्वेनद्वैताश्वविषाणदेवस्तुभूतत्वानुषङ्गात् कुतोऽप्रतिपक्षा पक्षसिद्धिः स्यात् ? सत्तायाश्च सामान्यवत्त्वप्रसङ्गः, गगनादीनां चैकैव्यक्तिकत्वात्कथं सामान्यसम्भवः ? ईष्टान्तश्च साध्यविकलः; पटादिपदे व्यक्तिव्यतिरिक्कै कै निमित्तत्वासिद्धेः ।
१९
ऐतेन वर्णविशेषे त्याद्यनुमानं प्रत्युक्तम् । नगरादौ च व्यक्तिव्यतिरिक्तैकनिमित्त निबन्धनाभावेपि तथाभूतज्ञानस्योपलम्भादनेकान्तः । न खलु नगरादिशाने व्यतिरिक्तमनुवृत्तप्रत्ययनिबन्धनं किञ्चिदस्ति, काष्ठादीनामेव प्रत्यासत्तिविशिष्टत्वेन प्रासा
१ ब्राह्मणे । २ ब्राह्मण्य । ३ साध्यधर्मः । ४ श्रावणत्व विविक्तशब्दस्याध्यक्षतो निश्चयाद्यथाऽश्रावण: शब्द इति पक्षः प्रत्यक्षबाधितस्तथेत्यर्थः । ५ दृष्टान्ते । ६ भिन्नज्ञानजनकत्वे भिन्नं व्यक्तिभ्यः, पृथक्कर्त्तुमशक्यत्वादभिन्नं सामान्यमिति । ७ मीमांसकैजैनैश्च । ८ पदत्वादिति । ९ आदिना अश्वविषाणादिपदे । १० साध्याभावे । ११ हेतोः । १२ इदमेव विवृणोति । १३ घटादिवत् । १४ अर्थस्य । १५ परमते । १६ एषां भेदा उपचरिता इत्यर्थः । १७ नैकव्यक्तिकं सामान्यमिति वचनात् । १८ गगनत्वादि । १९ इति साध्याभावो दर्शितः । २० पटादिपदवदिति । २१ नित्यसर्वगतादिरूपसामान्य । २२ पदत्वानुमाननिराकरणेन । २३ पदे । २४ साध्याभावे । २५ वर्णविशेषादिनिमित्तबुद्धिवैलक्षण्यस्योपलम्भात् । २६ नगरमिति ज्ञानोपलम्भात् । २७ व्यक्तेः सकाशात् ।
Jain Educationa International
For Personal and Private Use Only
२०
www.jainelibrary.org