________________
४८४
प्रमेयकमलमार्तण्डे [४. विषयपरि० · कथं चैवं वादिनो ब्रह्मव्यासविश्वामित्रप्रभृतीनां ब्राह्मण्यसिद्धिस्तेषां तेजन्यत्वासंभवात् । तन्न पित्रोरविप्लुतत्वं तैनिमित्तम् ।
नापि ब्रह्मप्रभवत्वम् ; सर्वेषां तत्प्रभवत्वेन ब्राह्मणशब्दाभिघेयतानुषङ्गात् । 'तन्मुखाजातो ब्राह्मणो नान्यः' इत्यपि भेदो ५ब्रह्मप्रभवत्वे प्रजानां दुर्लभः । न खल्वेकवृक्षप्रभवं फलं मूले मध्ये शाखायां च भिद्यते। ननु नागवल्लीपत्राणां मूलमध्यादिदेशोत्पत्तेः कण्ठभ्रामर्यादिभेदो दृष्ट एवमत्रापि प्रजाभेदः स्यात् ; इत्यप्यसत्; यतस्तत्पत्राणां जघन्योत्कृष्टप्रदेशोत्पादात्तत्पत्राणां तद्भेदो युक्तो ब्रह्मणस्तु तद्देशाभावान्न तद्भेदः । तद्देशभावे चास्य जघन्योत्कृष्ट१० तादिप्रसङ्गः स्यात् ।
किञ्च, ब्रह्मणो ब्राह्मण्यमस्ति वा, न वा? नास्ति चेत् ; कथमतो ब्राह्मणोत्पत्तिः ? न ह्यमनुष्यादिभ्यो मनुष्याद्युत्पत्तिर्घटते । अस्ति चेत्किं सर्वत्र, मुखप्रदेश एव वा? सर्वत्र इति चेत् ; स एव प्रजानां भेदाभावोनुषज्यते । मुखप्रदेशे एव चेत्; अन्यत्र प्रदेशे १५ तस्य शूद्रत्वानुषङ्गः, तथा च न पादादयोस्य वन्द्या वृषलादिवत्, मुखमेव हि विप्रोत्पत्तिस्थानं वन्द्यं स्यात्।
किञ्च, ब्राह्मण एव तन्मुखाजायते, तन्मुखादेवासौ जायेत? विकल्पद्वयेप्यन्योन्याश्रयः-सिद्धे हि ब्राह्मणत्वे तस्यैव तन्मुखादेव
जन्मसिद्धिः, तत्सिद्धेश्च ब्राह्मणत्वसिद्धिरिति । अथ जात्या २० ब्राह्मण्यस्य सिद्धिस्तन्मुखादेव तजन्मनश्चीयमदोषः, न; अस्याः
प्रत्यक्षतोऽप्रतीतेः । न खलु खण्डमुण्डादिषु सादृश्यलक्षणगोत्ववद्देवदत्तादौ ब्राह्मण्यजातिः प्रत्यक्षतः प्रतीयते, अन्यथा 'किमयं ब्राह्मणोऽन्यो वा' इति संशयो न स्यात् । तथा च
तन्निरासाय गोत्राद्युपदेशो व्यर्थः। न हि 'गौरयं मनुष्यो वा' २५ इति निश्चयो गोत्राद्युपदेशमपेक्षते ।
ननु यथा सुवर्णादिकं परोपदेशसहायात्प्रत्यक्षात्प्रतीयते तथा सापि; इत्यप्ययुक्तम् ; यतो न पीततामात्रं सुवर्णमतिप्रसङ्गात्, किन्तु तद्विशेषः, स च नाध्यक्षो दाहच्छेदादिवैयर्थ्यप्रसङ्गात् । तस्यापि सहार्यत्वे तंजातौ किश्चित्तथाविधं सहायं वाच्यम्-तच्चा
१ पित्रोरविप्लुतत्वं ब्राह्मणशब्दप्रवृत्तिनिवृत्तिनिमित्तमित्येवं वादिनः। २ अविप्लुतपितृ। ३ ब्राह्मणशब्दप्रवृत्तिनिमित्तम्। ४ मूले उत्पन्नानि पत्राणि कण्ठस्य भ्रमं कुर्वन्ति, मध्ये उत्पन्नानि कण्ठस्य सुस्वरत्वं कुर्वन्तीति मेदः। ५ तत्र ब्राह्मण्याभावात् । ६ सिद्धिरिति सम्बन्धः। ७ रीतिकादेः सुवर्णत्वप्रसङ्गात् । ८ सुवर्णादिशाने । ९ ब्राह्मण्य ।
www.jainelibrary.org
Jain Educationa International
For Personal and Private Use Only