________________
सू० ४।५] ब्राह्मणत्वजातिनिरासः ४८३ . नापि सविकल्पकात् , कंठकलापादिव्यक्तीनां मनुष्यत्वविशिष्टतयेव ब्राह्मण्यविशिष्टतयापि प्रतिपत्यसम्भवात् । पित्रादिब्राह्मण्यज्ञानपूर्वकोपदेशसहाया व्यक्तिय॑ञ्जिकास्य; इत्यप्यसारम् । यतः पित्रादिब्राह्मण्यज्ञानं प्रमाणम् , अप्रमाणं वा? अप्रमाणं चेत्, कथमतोर्थसिद्धिरतिसङ्गात् ? प्रमाणं चेत्, किं प्रत्य-५ क्षम्, अनुमानं वा? प्रत्यक्षं चेत् ; न; अस्य तेंद्राहकत्वेन प्रागेव प्रतिषेधात्।
किञ्च, 'ब्राह्मण्यजातेः प्रत्यक्षतासिद्धौ यथोक्तोपदेशस्य प्रत्यक्षहेतुतासिद्धिः, तत्सिद्धौ च तत्प्रत्यक्षतासिद्धिः' इत्यन्योन्याश्रयः। यथा च ब्राह्मण्यजातेः प्रत्यक्षत्वमुपदेशेन व्यवस्थाप्यते १० तथा ब्रह्माद्यद्वैतप्रत्यक्षत्वमपि, तत्कथमप्रतिपक्षा पक्षसिद्धिर्भवतः स्यात् ? अथाद्वैताद्युपदेशस्याध्यक्षवाधितत्वान्न प्रत्यक्षाङ्गत्वम्। तदन्यत्रापि समानम् । ब्राह्मण्यविविक्तपिण्डग्राहिणाध्यक्षेणैव हि तदुपदेशो बाध्यते । अथाऽदृश्या ब्राह्मण्यजातिस्तेनायमदोषः, कथं तर्हि सा 'प्रत्यक्षा' इत्युक्तं शोभेत ?
किञ्च, औपाधिकोयं ब्राह्मणशब्दः, तस्य च निमित्तं वाच्यम् । तच्च किं पित्रोरविप्लुतत्वम् , ब्रह्मप्रभवत्वं वा? न तावदविप्लुतत्वम् । अनादौ काले तस्याध्यक्षेण ग्रहीतुमशक्यत्वात्, प्रायेण प्रमदानां कामातुरतयेह जन्मन्यपि व्यभिचारोपलम्भाच्च कुतो योनि निवन्धनो ब्राह्मण्यनिश्चयः ? न च विप्लुतेतरपित्रऽपत्त्येषु वैलक्षण्यं २० लक्ष्यते । न खलु वडवायां गर्दभाश्वप्रभवापत्येष्विव ब्राह्मण्यां ब्राह्मणशूद्रप्रभवापत्येष्वपि वैलक्षण्यं लक्ष्यते । क्रियाविलोपोत् शूद्रान्नादेश्च जातिलोपः स्वयमेवाभ्युपगतः"शूद्रानाच्छूद्रसम्पर्काच्छूद्रेण सह भाषणात् । इह जन्म नि शूद्रत्वं मृतः श्वा चाभिजायते ॥"
[ ] इत्यभिधानात् ।।
२५
१ कठः स्वरे ऋचा भेदः । २ ब्राह्मणव्यक्तीनाम्। ३ वैधHदृष्टान्तोयम् । यत्र दृष्टान्तदार्टान्तयोरुभयोरस्तित्वं तत्रान्वयदृष्टान्तः । यत्रैकस्यास्तित्वमेकस्य नास्तित्वं तत्र व्यतिरेकदृष्टान्तः। ४ संशयादपि स्वाभिमतार्थसिद्धिप्रसङ्गात् । ५ ब्राह्मण्यजाति । ६ अनन्तरमेव। ७ व्यवस्थाप्यतां शास्त्रोपदेशेन। ८ परपक्षस्यानिराकरणात् । ९ अङ्गं कारणम् । १० विशेष्यवाच्यस्य विशेषणं ( तस्य वाचकत्वात् ) वचः (तद्वाचकं) इत्यभिधानात् । ११ प्रवृत्तरिति शेषः। १२ अभ्रान्तत्वम् । १३ पित्रोः। १४ ब्राह्मण्यस्य । १५ जातेः ब्राह्मण्यस्य । १६ ततो नित्यत्वव्याघातः । १७ मीमांसकेन ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org