________________
४८२
प्रमेयकमलमार्तण्डे
[४. विषयपरि०
एतेन नित्यं निखिलब्राह्मणव्यक्तिव्यापकं ब्राह्मण्यमपि प्रत्याख्यातम् । न हि तत्तथाभूतं प्रत्यक्षादिप्रमाणतः प्रतीयते । ननु चं 'ब्राह्मणोयं ब्राह्मणोयम्' इति प्रत्यक्षत एवास्य प्रतिपत्तिः। न चेदं विपर्ययज्ञानम् ; बाधकाभावात् । नापि संशयज्ञानम् ; उभयांशा५नवलम्बित्वात् । पित्रादिब्राह्मण्यज्ञानपूर्वकोपदेशंसहाया चास्य व्यक्तिय॑जिका, तत्रापि तत्सहायेति । न चात्राऽनवस्था; बीजाकरादिवदनादित्वात्तत्तद्रूपोपदेशपरम्परायाः।।
तथानुमानतोपि; तथाहि-ब्राह्मणपदं व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बद्धं पदत्वात्पटादिपदवत् । न चायमसिद्धो हेतुः; १० धर्मिणि विद्यमानत्वात् । नापि विरुद्धः, विपक्षे एवाभावात् । नाप्य
नैकान्तिकः, पक्षविपक्षयोरवृत्तेः । नापि दृष्टान्तस्य साध्यवैकल्यम्; पटादौ व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेयसम्बद्धत्वाभावे व्यक्तीनामानन्त्येनाऽनन्तेनापि कालेन सम्बन्धग्रहणाघटनात् । तथा, "वर्णविशेषाध्ययनाचारयज्ञोपवीतादिव्यतिरिक्तनिमित्तनि१५बन्धनं 'ब्राह्मणः इति ज्ञानम्, तनिमित्तबुद्धिविलक्षणत्वात्,
गवाश्वादिज्ञानवत्' इत्यतोपि तत्सिद्धिः । तथा 'ब्राह्मणेन यष्टव्यं ब्राह्मणो भोजयितव्यः' इत्याद्यागमाँच्चेति ।
अत्रोच्यते । यत्तावदुक्तम्-प्रत्यक्षत एवास्य प्रतिपत्तिः, तत्र किं निर्विकल्पकात्, विकल्पकाद्वा ततस्तत्प्रतिपत्तिः स्यात् ? न २० तावन्निर्विकल्पकात्; तत्र जात्यादिपरामर्शाभावात् , भावे वा सविकल्पकानुषङ्गः । अन्यथा
"अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । वालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ १॥ ततः परं पुनर्वस्तुधमॆर्जात्यादिभिर्यया।
बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन सम्मता ॥ २॥" [ मी० श्लो० प्रत्यक्षसू० ११२,१२०] इति वचो विरुद्ध्येत।
१ विस्फारिताक्षस्य पुरुषस्य पुरो व्यवस्थितेषु क्षत्रियादिस चेषु । २ इति= अनुगतकाकारप्रत्ययतया। ३ पित्रादिब्राह्मण्यज्ञानादस्य पुत्रस्य ब्राह्मण्यमित्युपदेशः। ४ कठकलापादिः। ५ ब्राह्मणोयं ब्राह्मणोयमिति सामान्यस्य वाचकत्वात् ब्राह्मण इति सामान्यपदम्। ६ ब्राह्मण्यं तदेवाभिधेयं तेन सम्बद्धम् । ७ पदत्वस्य । ८ नापि दृष्टान्तस्य साधनवैकल्यं पटादिपदे पदत्वस्य विद्यमानत्वात् । ९ पटत्व । १० द्वितीयमनुमानम् । ११ गौरत्वादि । १२ ब्राह्मण इति ज्ञानस्य । १३ अपुरुषकृतात् । १४ जात्यादिपरामर्शकत्वेपि निर्विकल्पकत्वे । १५ इन्द्रिय । १६ अक्षिविस्फालनानन्तरम् । १७ तज्ज्ञानं वक्तुं न शक्यते यतः। विशेषणविशेष्यरहितं शुद्धं भेदरहितसन्मात्रलक्षणवस्तुतो जातम् । १८ भेदसहितं समन्वितमिति यावत् । ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org