________________
सू० ४५] ब्राह्मणत्वजातिनिरासः
४८७ भवदभ्युपगमेन । क्रियाभ्रंशे तजातिनिवृत्तौ च ब्रौत्येप्यस्या निवृत्तिः स्यात्तद्भशाविशेषात् ।
किञ्च, क्रियानिवृत्तौ तजातेर्निवृत्तिः स्याद् यदि क्रिया तस्याः कारणं व्यापिका वा स्यात् , नान्यथातिप्रसङ्गात् । न चास्याः कारणं व्यापकं वा किञ्चिदिष्टम् । न च क्रियाभ्रंशे जातेर्विकारोस्ति;५ "भिन्नेष्वभिन्ना नित्या निरवयवा च जातिः।" [ ] इत्यभिधानात् । न चाविकृताया निवृत्तिः सम्भवत्यतिप्रसङ्गात् ।।
किञ्चेदं ब्राह्मणत्वं जीवस्य, शरीरस्य, उभयस्य वा स्यात् , संस्कारस्य वा, वेदाध्ययनस्य वा गत्यन्तरासम्भवात् ? न तावजीवस्य; क्षत्रियविट्रशूद्रादीनामपि ब्राह्मण्यस्य प्रसङ्गात् , तेषामपि १० जीवस्य विद्यमानत्वात् ।
नापि शरीरस्य; अस्य पञ्चभूतात्मकस्यापि घटादिवद् ब्राह्मण्यासम्भवात् । न खलु भूतानां व्यस्तानां समस्तानां वा तत्सम्भवति । व्यस्तानां तत्सम्भवे क्षितिजलपवनहुताशनाकाशानामपि प्रत्येकं ब्राह्मण्यप्रसङ्गः । समस्तानां च तेषां तत्सम्भवे घटादीनामपि १५ तत्सम्भवः स्यात्, तत्र तेषां सामस्त्यसम्भवात् । नाप्युभयस्य; उभयदोषानुषङ्गात्।
नापि संस्कारस्य; अस्य शूद्रबालके कर्तुं शक्तितस्तत्रापि तत्प्रसङ्गात् ।
किञ्च,संस्कारात्माग्ब्राह्मणबालस्य तदस्ति वा, न वा ? यद्यस्ति;२० संस्कारकरणं वृथा। अथ नास्ति; तथापि तदृथा । अब्राह्मणस्याप्यतो ब्राह्मण्यसम्भवे शूद्रवालकस्यापि तत्सम्भवः केन वार्यत? - नापि वेदाध्ययनस्य, शूद्रेपि तत्सम्भवात् । शूद्रोपि हि कश्चिदेशान्तरं गत्वा वेदं पठति पाठयति वा । न तावतास्य ब्राह्मणत्वं भवद्भिरभ्युपगम्यत इति । ततः सदृशक्रियापरिणामादिनिबन्ध-२५ नैवेयं ब्राह्मणक्षत्रियादिव्यवस्था इति सिद्धं सर्वत्र सदृशपरिणामलक्षणं समानप्रत्ययहेतुस्तिर्यक्सामान्यमिति । किं पुनरूतासामान्यमित्याह
१ नित्यत्वादिरूपाया जातेः ततो नास्ति क्रियाभ्रंश इत्यर्थः । २ कदाचिनमस्कारहीनेपि । ३ अग्निनिवृत्तौ धूमनिवृत्तिरतोऽग्निः कारणं धूमस्य तद्वत् । ४ वृक्षनिवृत्तौ शिशपात्वानिवृत्तिरतो वृक्षः शिंशपाया व्यापकस्तद्वत् । ५ घटनिवृत्ती पटनिवृतिः स्यात् । ६ क्रिया-सन्ध्यावन्दनादिः। ७ नाशरूपः । ८ आत्माका. शादेरपि निवृत्तिः स्यादिति । ९ वेदाध्ययनमात्रेण ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org