________________
४७८
प्रमेयकमलमार्तण्डे [४. विषयपरिक क्रियाविरहात् । पचन्नेव हि तथा व्यपदिश्येत नान्यदा । तन्न कसैंतस्य प्रत्ययस्य निबन्धनम् । ...
नापि कर्मसामान्यम्; तद्धि कर्माश्रितम् , कर्माश्रयाश्रितं वा? यदि कर्माश्रितम् ; कथमन्यत्र ज्ञानं जनयेत् ? न हान्यत्र वृत्ति५मदन्यत्र ज्ञानकारणमतिप्रंसगात्।
किञ्च, कर्मसामान्यात् 'पाकः पाकः' इति प्रत्ययः स्यान्न पुनः 'पाचकः पाचकः' इति । अथ कर्माश्रयाश्रितम् ; तन्न; कर्माश्रितत्वात् । परम्परया कर्माश्रयाश्रितं तत् ; इत्यसारम् ; अपर्चतः कर्मविवेकात् । विविक्ते च कर्मणि न कर्मत्वं कर्मणि तदाश्रये वाऽऽ. १०श्रितम् , अनाश्रितं च कथं तत्तत्र तथाज्ञानहेतुः स्यात् ? __ अथाऽपचतोऽतीतानागते कर्मणी तथाव्यपदेशज्ञान निबन्धनं न कर्मत्वम्। ननु सती, असती वा ते तन्निबन्धनं स्याताम् । न तावत्सती; अतीतस्य प्रच्युतत्वादनागतस्य चालब्धात्मखरूप
त्वात् । असती च कथं कस्यापि निबन्धनमतिप्रसङ्गात् ? तन्न १५ कर्मत्वमपि तत्प्रत्ययस्य निबन्धनम् ।
नापि व्यक्तिः, अनिष्टेविभिन्नत्वाच्च । · नापि शक्तिः, सा हि पाचकादन्या, अनन्या वा स्यात् ? अनन्यत्वे तयोरन्यतरदेव स्यात् । अन्यत्वे च अस्या एव कार्योपयोगि. त्वेन कर्तुरकर्तुत्वानुषङ्गः । अथ पारम्पर्येणोपयोगः-कर्ता हि २०शक्तावुपयुज्यते शक्तिश्च कार्ये । नन्वसौ शक्तावुपयुज्यते स्वरूपेण,
शत्यन्तरेण वा? शक्त्यन्तरेणोपयोगेऽवस्था । स्वरूपेणोपयोगे कार्येप्यसौ तथा किन्नोपयुज्यते किं परम्परापरिश्रमेण ? ने चान्यनिमित्तमस्ति ।
पाचकत्वमस्तीति चेत्, तत्ति द्रव्योत्पत्तिकाले व्यक्तम् , २५ अव्यक्तं वा? व्यक्तं चेत्, तर्हि पाकक्रियायाः प्रागेव तथा शानाभिधाने स्याताम् । अथाऽव्यक्तम्; तर्हि पश्चादपि न ते स्यातां
१ पाचक इति । २ कर्मवत्पुरुषाश्रितम् । ३ कर्माश्रये देवदत्ते। ४ कर्मणि । ५ देवदत्ते। ६ गृहे वृत्तिमान्प्रदीपो गुहायां ज्ञानकारणं स्यादित्यतिप्रसङ्गः। ७ कर्मत्वं कर्माश्रितं कर्म च देवदत्ताश्रितमिति । ८ पुरुषस्य । ९ नष्टे । १० सामान्यम् । ११ देवदत्ते। १२ पाचक इति । १३ पाचकः पाचक इति । १४ अनुगतप्रत्ययस्य । १५ परेणानभ्युपगमात् । १६ अनेकत्वात् । १७ पचनलक्षणं कार्यम् । १८ कर्मादिभ्योऽन्यनिमित्तं भविष्यतीत्याह । १९ पाचकः पाचक इति शानव्यपदेशयोरनुगतप्रत्ययहेतुः। २० देवदत्तलक्षण । २१ पाचक इति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org