________________
सू० ४५] . सामान्यस्वरूपविचारः
४७९ विशेषाभावात् । तथाहि-तत्पूर्व द्रव्यसमवायधर्मः स्याद्वा, न वा? सत्त्वे सत्त्ववत्पूर्वमेव व्यक्तिः, तर्थाव्यपदेशश्च स्यात् । अथ न; तदा पश्चादपि द्रव्यसमवार्यधर्मत्वं न स्यादेकरूपत्वात्तस्य । तन्न पश्चाद्यक्तिस्तस्य। ___ अस्तु वा; तथाप्यसौ द्रव्येण, क्रियया, उभाभ्यां वाभिधीयते १५ न तावद्रव्येण; अस्य प्रागपि विद्यमानत्वात् । नापि क्रियया; तस्या अनाधेयातिशयेऽकिश्चित्करत्वात् । नाप्युभाभ्याम् ; पृथगडसामर्थ्य सहितयोरप्यसामर्थ्यात् । तन्नानुगतःप्रत्ययोऽनुगाम्येक सामान्यमालम्बते।
किञ्च, 'गोत्वं वर्तते' इत्यभ्युपेतं भवता, तत्र किं गोवेवं गोत्वं १० वर्त्तते, किं वा गोषु गोत्वमेव, गोषु गोत्वं वर्तते एवेति वा? प्रथमपक्षेऽनन्वयित्वाविशेषाद्यावत्तेषु गोत्वं वर्तते तावदन्यत्रापि किन्न वर्त्तत ? द्वितीये पक्षे तु सत्त्वद्रव्यत्वादीनां व्यवच्छेदाद्यक्ते. रप्यभावप्रसङ्गस्तद्रूपत्वात्तस्याः । अथ 'गोषु गोत्वं वर्त्तते' एवेति पक्षः, 'तत्र चौन्यत्र गोत्वं वर्तत ऐव' इति गोव्यक्तिवत्कर्कादावपि १५ 'गोर्गौः' इति ज्ञानं स्यात्तवृत्तेरविशेषात् । तन्न व्यक्त्यात्मकात् प्रतिव्यक्तिविभिन्नात्सदृशपरिणामात् अन्यद् व्यक्तिभ्यो भिन्नमेकं सामान्यं घटते।
विभिन्नं हि प्रतिव्यक्ति सदृशपरिणामलक्षणं सामान्यं विसदृश. परिणामलक्षणविशेषवत् । यथैव हि काचियक्तिरुपलभ्यमाना २० व्यत्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते तथा सह. शपरिणामदर्शनात्किञ्चित्केनचित्समानमपि 'तेनायं समानः सोऽनेन समानः' इति प्रतीतेः। न च व्यक्तिस्वरूपादभिन्नत्वात्सामान्यरूपताव्याघातोऽस्य; रूपादेरप्यत एव रूपादिस्वभावताव्याघात
१ भेदाभावान्नित्यत्वस्यैकस्वभावत्वात् । २ देवदत्तलक्षण । ३ धर्मः स्वभावः । ४ देवदत्तस्य । ५ पाचकत्वस्य । ६ पाचकः पाचक इति । ७ द्रव्योत्पत्तिकालेपि । ८ पचाकत्वस्य । ९ पश्चाद्वयक्तिः (प्रकटनम् )। १० द्रव्यक्रियाभ्याम् । ११ देवदत्तादिना। १२ पचनलक्षणया। १३ पाचकत्वसामान्ये । १४ न च जैनानामिदं दूषणं तेषां शक्तरङ्गीकारात्, परेषां शक्तरङ्गीकारो नास्ति यतः। १५ नैयायिकेन । १६ नान्यत्रेत्यर्थः। १७ न सत्त्वद्रव्यत्वादिकं गोषु वर्तते । इत्यन्ययावृत्तिः (१) । १८ अन्यत्रापि गोत्वं वर्तते इत्यर्थः। १९ गोषु गोत्वसम्बन्धाभावाविशेषात् । २० समवायादीनां प्रागेव प्रतिक्षिप्तत्वात् । २१ अनन्वयो विभिन्नत्वमसम्बद्धत्वं वा। २२ अश्वादिषु । २३ कर्कादिषु । २४ एवकारयोगेनान्ययोगायोगाऽत्यन्ताऽयोगव्यव. च्छेदादिति सिद्धम् । २५ भनेकम् । २६ व्यच्यात्मकादिति विशेषणं समर्थयति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org