________________
सू० ४५] सामान्यस्वरूपविचारः 'अभावोऽभावः' इत्यनुगतप्रत्ययप्रवृत्तिरस्ति, न च परैरभाव. सामान्यमभ्युपगतम् । न खलु तत्रानुगाम्येकं निमित्तमस्त्यन्यत्र सदृशपरिणामात् । । ननु चापरसामान्यस्य प्रागभावादिष्वभावेपि सत्ताख्यं महासामान्यमस्ति, तद्बलादेवाभावप्रत्ययोऽनुगतो भविष्यति ।५ उक्तञ्च
"ननु च प्रागभावादी सामान्यं वस्तु नेष्यते । .. सत्तैव ह्यत्र सामान्यमनुत्पत्त्यादिरूपता" ॥१॥
[मी० श्लो० अपोहवाद श्लो० ११] अनुत्पत्त्यादिविशिष्टेत्यर्थः। तदयुक्तम् ; अभिप्रेतपदार्थव्यतिरि-१० क्तानां मतान्तरीयार्थानाम उत्पाद्यकथार्थानां वाऽभावप्रतीतिविषयतोपलम्भेन सत्त्वप्रसङ्गात् । तन्नाभावेष्वनुवृत्तप्रतीतेरनुगाम्ये. कसामान्य निबन्धनत्वमस्तीत्यन्यत्राप्यस्यास्तन्निबन्धनत्वाभावः । प्रयोगः-ये क्रमित्वानुगामित्ववस्तुत्वोत्पत्तिमत्त्वसत्त्वादिधर्मोपेतास्ते परकल्पितनित्यैकसर्वगतसामान्यनिबन्धना न भवन्ति १५ यथाऽभावेष्वभावोऽभाव इति प्रत्ययाः, सामान्येषु सामान्य सामान्यमिति प्रत्यया वा, तथा चामी प्रत्यया इति । " अथ यत्र सामान्यं तत्रैवानुगतज्ञानकल्पना; न; पाचकादिषु तभावेप्यतुंगतप्रत्ययप्रवृत्तेः । न खलु तत्रानुगाम्येकं :सामान्यमस्ति यत्प्रसादात्तत्प्रवृत्तिः स्यात् । निमित्तान्तरमस्तीति २० चेत्तत्किं कर्म, कर्मसामान्यं वा स्यात्, व्यक्तिः, शक्तिर्वा ? न तावत्कर्म; तस्य प्रतिव्यक्ति विभिन्नत्वात् । 'विभिन्नं ह्यऽभिन्नस्य कारणं न भवति' इति सर्वोयमारम्भः। तच्चेद्भिन्नमपि तथाभूतकार्यकारणं तदान्यत्र कः प्रद्वेषः? : किञ्च, तत्कर्म नित्यं वा स्यात्, अनित्यं वा ? न तानित्यम्:२५ तथानुपलब्धेरनभ्युपगमाच्च । अनित्यं तु न सर्वदा स्थितिमदिति विनष्टे तस्मिन्न तथाभूतो व्यपदेशो झोन वा स्यात्, अपचतः
१ अभावत्वस्य । २ परेण । ३ एका सर्वगता। ४ आदिना नित्यसर्वगतत्वादिग्रहणम् । ५ ततोऽभावप्रत्ययोऽनुगतो भविष्यति । ६ अभिप्रेतानि द्रव्यगुणकर्माणि । ७ अद्वैतप्रधानादीनाम् । ८ लोके विचित्रकथार्थानाम् । ९ पुरुषेषु। १० पाचकः पाचक इत्यादि। ११ कथं सामान्यं नास्तीत्युक्ते आह। १२ पचनक्रियायाः पूर्व नास्ति। १३ देवदत्तयशदत्तचैत्रमैत्रेषु पचनक्रियालक्षणं कर्म भिन्नम् । १४ अनुगताकारस्य । १५ जैनमताभ्युपगते प्रतिव्यक्ति भिन्ने सदृशपरिणामे। १६ शब्दबुद्धिकर्मणां त्रिक्षणा. वस्थायित्वाभ्युपगमात् । १७ परेण । १८ पाचक इति । १९ पाचक इति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org