________________
४६८
प्रमेयकमलमार्तण्डे [४. विषयपरि० दूरादूतासामान्यमेव च प्रतिभासते न स्थाणुपुरुषविशेषौ तत्र सन्देहात् । तत्परिहारेण प्रतिभासनमेव च सामान्यस्य ततो व्यतिरेकस्तल्लक्षणत्वाद्भेदस्य । ... यदप्युक्तम्५ "ताभ्यां तद्यतिरेकश्च किन्नाऽदूरेऽवभासनम् । __ दूरेऽवभासमानस्य सन्निधानेऽतिभासनम् ॥"
[प्रमाणवार्त्तिकालं०] . तदप्यसुन्दरम् । विशेषेपि समानत्वात् , सोपि हि यदि सामान्यायतिरिक्तः, तर्हि दूरे वस्तुनः स्वरूपे सामान्ये प्रतिभासमाने २०किन्नावभासते ? न हीन्द्रधनुषि नीले रूपे प्रतिभासमाने पीतादिरूपं दूरान्न प्रतिभासते। अथ निकटदेशसामग्री विशेषप्रतिभासस्य जनिका, दूरदेशवर्तिनां च प्रतिपत्तॄणां सा नास्तीति न विशेषप्रतिभासः, तर्हि सामान्यप्रतिभासस्य जनिका दूरदेश
सामग्री निकटदेशवर्तिनां चासौ नास्तीति न निकटे तत्प्रति१५भासन मिति समः समाधिः । अस्ति च निकटे सामान्यस्य प्रतिभासनं स्पष्टं विशेषस्य प्रतिभासवत्, यादृशं तु दूरे तस्यास्पष्टं प्रतिभासनं तादृशं न निकटे स्वसामय्यभावात् तद्वदेव ।
न चानुगतप्रतिभासो बहिःसाधारणनिमित्तनिरपेक्षो घटते; प्रतिनियतदेशकालाकारतया तस्य प्रतिभासाभावप्रसङ्गात् । न २० चाऽसाधारणा व्यक्तय एव तनिमित्तम्; तासां भेदरूपतया
ऽऽविष्टत्वात् । तथापि तन्निमित्तत्वे कांदिव्यक्तीनामपि गौरेंरिति बुद्धिनिमित्तत्वानुषङ्गः।।
न चाऽतत्कार्यकारणव्यावृत्तिः एकप्रत्यवमर्शाधेकार्थसाधन
१ युक्त्यन्तरेण सामान्य व्यवस्थापयति जैनः । २ ऊर्ध्वताकारसदृशसामान्यम् । ३ ऊर्ध्वताकारसामान्यस्य । ४ विशेषः। ५ इन्द्रधनुषि विद्यमानम् । ६ दूरदेशतादि । ७ समानाकारलक्षणसामान्यपदार्थ । ८ न बहिः साधारणनिमित्तं सामान्यं तन्नि'मित्तम् । ९ व्यापकत्वात् । १० परेणाङ्गीकृते । ११ कर्क: श्वेताश्वः । १२ व्यक्तीनां तन्निमित्तत्वाविशेषात् । १३ या या व्यक्तयस्तास्ता भेदरूपाः। १४ कार्य च कारणं च कार्यकारणे तस्य खण्डादेः कार्यकारणे न विद्यते ते अकार्यकारणे यस्याऽसावतस्कार्यकारणः कर्कादिस्तस्माब्यावृत्तिः । दृष्टान्ते समासयुक्तिं दर्शयति । दृष्टान्ते त्वेके 'न्द्रियादिरूपे तच्छब्देन विवक्षितेन्द्रियादिरन्यत्र समुदितेतरगुडूच्यादिर्घायः । बहुव्रीहि. समासकरणानन्तरं कर्कादिवदन्या विवक्षितेन्द्रियादिरन्या विवक्षितप्रयोगश्च ग्राह्यः । 'तस्मान्यावृत्तिरित्यवसातव्यः । १५ कर्कादीनामुत्तरक्षणाः कारणानि, वेभ्यो व्यावृत्तिः। १६ गौॉरित्यादि । १७ आदिशग्देनैकव्यवहारादि यः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org