SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ सू० ४।५] अतव्यावृत्तिरूपसामान्यनिरासः हेतुः अत्यन्तभेदेपीन्द्रियादिवत् समुदितेतरगुडूच्यादिवच्चेत्यभिधातव्यम्; सर्वथा समानपरिणामानाधारे वस्तुन्यतत्कार्यकारणव्यावृत्तेरेवासम्भवात् । अनुगतप्रत्ययाद्वस्तुनि प्रवृत्त्यऽभावप्रसङ्गाच्च । गुडूच्यादिदृष्टान्तोपि साध्यविकलः, न खलु ज्वरोपशमनशक्तिसमानपरिणामाभावे 'गुडूच्यायो ज्वरोपश-५ मनहेतवः न पुनधित्रपुसादयोपि' इति शक्यव्यवस्थम् , 'चक्षुरादयो वा रूपज्ञानहेतवस्तजननशक्तिसमानपरिणामविरहिणोपि न पुना रसायोपि' इति निर्निबन्धना व्यवस्थितिः । किञ्च, अनुगतप्रत्ययस्य सामान्यमन्तरेणैव देशादिनियमेनोत्पत्ती व्यावृत्तप्रत्ययस्यापि विशेषेमन्तरेणैवोत्पत्तिः स्यात् । शक्यं १० हि वक्तुम्-अभेदाविशेषेप्येकमेव ब्रह्मादिरूपं प्रतिनियतानेकनीला. . द्याभासनिबन्धेनं भविष्यतीति किमपररूपादिस्खलक्षणपरिकल्पनया । ततो रूपादिप्रतिभासस्येवानुगतप्रतिभासस्याप्यालम्बनं वस्तुभूतं परिकल्पनीयम् इत्यस्ति वस्तुभूतं सामान्यम् । एककार्यतासादृश्येनैकत्वाध्यवसायो व्यक्तीनाम् ; इत्यप्यचारु; १५ कार्याणामभेदासिद्धेः,वाहदोहादिकार्यस्य प्रतिव्यक्ति भेदात्। तत्रा. प्यपरैककार्यतासादृश्येनैकत्वाध्यवसायेऽनवस्था। ज्ञानलक्षणमपि कार्य प्रतिव्यक्ति भिन्नमेव । अनुभवानामेपरामर्शप्रत्ययहेतुत्वादेकत्वम्, तद्धेतुत्वाच्च व्यतीनामित्युपचरितोपचारोपि श्रद्धामात्रगम्यः; अनुभवानामप्य-२० त्यन्तवैलक्षण्येनैकपरामर्शप्रत्ययहेतुत्वायोगात्, अन्यथा कर्कादिव्यक्त्यनुभवेभ्योपि खण्डमुण्डादिव्यक्तौ एकपरामर्शप्रत्ययस्यो. त्पत्तिः स्यात् । अथ प्रत्यासत्तिविशेषात्खण्डमुण्डाद्यनुभवेभ्य एवास्योत्पत्तिर्नान्यतः । ननु प्रत्यासत्तिविशेषः कोन्योऽन्यत्र १ खण्डादयो विशेषा धर्मिणः समानपरिणामरहिता एव एकप्रत्यवमर्शायेकार्थसाधनहेतवः अतत्कार्यकारणकर्कादिव्यावृत्तित्वादिन्द्रियादिवत्। २ व्यक्तीनाम् । ३ आदिना-अर्थालोकयोग्यतादिग्रहणम् । ४ समुदितेतरगुडूच्यादयो विशेषाः समानपरिणामाहिता एव एकप्रत्यवमर्शाधेकार्थहेतवोऽतत्कार्यकारणाविवक्षितेन्द्रियादिव्यावृत्तित्वाधथा। ५ शुण्ठ्यादि । ६ खण्डादिव्यक्तौ । ७ अभावरूपाया व्यावृत्तेर्शातत्वादनुगतप्रत्ययस्य । ८ तथा हि । ९ कर्कटी। १० निर्विकल्पस्य । ११ बामनीलादिस्वलक्षणम् । १२ बाह्यनीलादिविशेषमन्तरेणैव । १३ सौगतेन त्वया । १४ व्यक्तीनामेककार्यत्वसमर्थनार्थम् । १५ निर्विकल्पकप्रत्यक्षशानानाम् । १६ गौगौरिति । १७ एकत्वम् । १८ विकल्पगतमेकत्वमनुभवेऽनुभवगतं चैकत्वं व्यक्तिष्विति । १९ निर्विकल्पकेभ्यः। प्र. क. मा. ४० . Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy