________________
सू० ४।१-५] सामान्यस्वरूपविचारः ४६७ सदृशपरिणामस्तिर्यक् खण्डमुण्डादिषु
गोत्ववत् ॥५॥ नेनु खण्डमुण्डादिव्यक्तिव्यतिरेकेणापरस्य भवत्कल्पितसामान्यस्याप्रतीतितो गगनाम्भोरुहवसत्त्वादसाम्प्रतमेवेदं तल्लक्षण. प्रणयनम् ; इत्यप्यसमीचीनम् ; 'गौ!ः' इत्याद्यबाधितप्रत्ययविष-५ यस्य सामान्यस्याऽभावासिद्धेः । तथाविधस्याप्यस्यासरवे विशेषस्याप्यसत्त्वप्रसङ्गः, तथाभूतप्रत्ययत्वव्यतिरेकेणापरस्य तव्यवस्था निबन्धनस्यात्राप्यसत्त्वात् । अबाधितप्रत्ययस्य च विषयव्यतिरेकेणापि सद्भावाभ्युपगमे ततो व्यवस्थाऽभावप्रसङ्गः। न चानुगताकारत्वं बुद्धर्बाध्यते; सर्वत्र देशोदावनुगतप्रतिभासस्थाऽ-१० स्खलद्रूपस्य तथाभूतव्यवहारहेतोरुपलम्भात् । अतो व्यावृत्ताकारानुभवानधिगतमनुगताकारमवभासन्त्यऽबाधितरूपा बुद्धिः अनुभूयमानानुगताकारं वस्तुभूतं सामान्य व्यवस्थापयति ।
ननु विशेषव्यतिरेकेण नापरं सामान्यं बुद्धिभेदर्दीभावात् । न च बुद्धिभेदमन्तरेण पदार्थमेदव्यवस्थाऽतिप्रसङ्गात् । तदुक्तम्- १५
"न भेदौद्भिन्नमस्त्यन्यत्सामान्यं बुद्ध्यमेदतः। बुद्ध्याकारस्य भेदेन पदार्थस्य विभिन्नता ॥"
[ ] इति; तदप्यपेशलम् ; सामान्यविशेषयोर्बुद्धिभेदस्य प्रतीतिसिद्धत्वात् । रूपरसादेस्तुल्यकालस्याभिन्नाश्रयवर्तिनोप्यंत एव भेद-२० प्रसिद्धः । एकेन्द्रियाध्यवसेयत्वाजातिव्यक्त्योरभेदे वातातपादावप्यभेदप्रसङ्गः । तत्रापि हि प्रतिभासभेदोन्नान्यो भेदव्यवस्थाहेतुः। स च सामान्यविशेषयोरप्यस्ति । सामान्यप्रतिभासो हानुगताकारः, विशेषप्रतिभासस्तु व्यावृत्ताकारोऽनुभूयते ।
१ सानादिमत्त्वेन । २ सौगतः। ३ जैन। ४ परेणाङ्गीक्रियमाणे सति । ५ अबाधितप्रत्ययविषयत्वाविशेषादिति । ६ प्रमाणान्तरस्य। ७ विशिष्टस्थितिकारणं व्यवस्था । ८ विशेषसत्त्वेपि । ९ परेण । १० गौौरिति । ११ विशेषणम् । १२ आदिना कालादौ। १३ अनुगताकारत्वं बुद्धेर्न बाध्यते यतः। १४ इदं सामान्यमयं विशेष इति । १५ विशेषात् । १६ स्वतनम् । १७ अभेदे हेतुरयम् । १८ यतः। १९ बीजपूरादि । २० अयं रस इदं रूपमिति बुद्धिभेदात् । २१ एके न्द्रिया (स्पर्शनेन्द्रिय ) ध्यवसायस्याविशेषात् । २२ अयं वातोऽयमावप इति । २३ गौगौरित्येवम् । २४ अयममाद्भिन्न इति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org