________________
श्रीः। अथ चतुर्थः परिच्छेदः॥
अथोक्तप्रकारं प्रमाणं किं निर्विषयम् , सविषयं वा? यदि निर्विषयम् । कथं प्रेमाणं केशोण्डुकादिज्ञानवत् ? अथ सविषयम्; कोस्य विषयः? इत्याशङ्ख्य विषयविप्रतिपत्तिनिराकरणार्थ 'सामान्यविशेषात्मा' इत्याद्याह५ सामान्यविशेषात्मा तदर्थों विषयः॥१॥
तस्य प्रतिपादितप्रकारप्रमाणस्यार्थो विषयः । किविशिष्टः ? सामान्यविशेषात्मा। कुत एतत् ? पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणप
रिणामेन अर्थक्रियोपपत्तेश्च ॥२॥ १० . अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात् , यो हि यदाकारोल्लेर्खिप्रत्य
यगोचरः स तदात्मको दृष्टः यथा नीलाकारोल्लेखिप्रत्ययगोचरो नीलखभावोर्थः, सामान्यविशेषाकारोल्लेख्यनुवृत्तव्यावृत्तप्रत्ययगोचरश्चाखिलो बाह्याध्यात्मिकप्रमेयोर्थः, तस्मात्सामान्यविशे
षात्मेति । न केवलमतो हेतोः स तदात्मा, अपि तु पूर्वो१५त्तैराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनाऽर्थक्रियोपपत्तेश्च । 'सामान्यविशेषात्मा तदर्थः' इत्यभिसम्बन्धः । कतिप्रकारं सामान्यमित्याह
सामान्यं द्वेधा ॥३॥ कथमिति चेत्२० तिर्यगूर्द्धताभेदात् ॥ ४॥
तत्र तिर्यक्सामान्यखरूपं व्यक्तिनिष्ठतया सोदाहरणं प्रदर्शयति
१ स्वापूर्वेत्यादि । २ शानं धर्मि प्रमाणं न भवतीति साध्यो धर्मो निर्विषयत्वात्केशोण्डुकशानवत् । ३ सामान्यं च विशेषश्च सामान्यविशेषौ तावात्मानौ यस स तथोक्तः। ४ सिद्धम् । ५ गौगौरित्यादिप्रत्ययः अनुवृत्तः । श्यामः शबलो न भवतीत्यादिप्रत्ययो व्यावृत्तरूपः । ६ उल्लेखः प्रतिभासः । ७ पूर्वोत्तराकारौ पर्यायौ= विशेषः। ८ स्थितिलक्षणं द्रव्यमूर्द्धतासामान्यम् । प्रौव्यमित्यर्थः। ९ विशेषो व्यक्तिः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org