SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ सू० ३३१०१] अभिहितान्वयवादः ४६५ ततः प्रकृत्याद्यवयवेभ्यः कथञ्चिद्भिन्नमभिन्नं च पदं प्रातीतिकमभ्युपगन्तव्यम्, न तु सर्वथाऽनंशं वर्णवत्तह्राहकाभावात्। तद्वत्पदेभ्यः कथञ्चिद्भिन्नमभिन्नंच वाक्यं द्रव्यभाववाक्यमेदभिन्नं प्रोक्तलक्षणलक्षितं प्रतीतिपदमारूढमभ्युपगन्तव्यम् अलं प्रतीत्यपलापेनेति । प्रामाण्यं सुधियो धियो यदि मतं संवादतो निश्चितात् , स्मृत्यादेरपि किन्न तन्मतमिदं तस्याऽविशेषात्स्फुटम् । तत्संख्या परिकल्पितेयमधुना सन्तिष्ठतेऽतः कथम् , तस्माजैनमते मतिर्मतिमतां स्थयाचिरं निर्मले ॥१॥ इति श्रीप्रभाचन्द्रदेवविरचिते प्रमेयकमलमार्तण्डे परीक्षामुखालङ्कारे १० तृतीयः परिच्छेदः ॥ श्रीः ॥ १ पदं प्रकृतिर्न भवति, पदं च प्रकृतिनेंति व्यावृत्तिरूपेण । २ समुदायरूपेण । ३ निरंशस्य वर्णस्य यथा ग्राहकं प्रमाणं नास्ति तथाऽनंशपदस्य च । ४ पदं वाक्यं न भवति, वाक्यं च पदं न भवतीति व्यावृत्तिरूपेण । ५ समुदायरूपेण । ६ वचनात्मकं द्रव्यवाक्यं, बोधात्मकं तु भाववाक्यम् । ७ पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यमिति । ८ सकलं परिच्छेदार्थमुपसंहरन्नाह । ९ पुंसः। १० प्रामाण्यम् । ११ संवादस्य । १२ तस्य-प्रमाणस्य । १३ स्मृत्यूहादीनां प्रामाण्यप्रतिपादनसमये। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy