________________
प्रमेयकमलमार्तण्डे [३. परोक्षपरिक स्यात् ? चक्षुरादेर्गन्धादाविव पदस्य वाक्यार्थसम्बन्धानवधारणतः सामर्थ्यानुपपत्तेः । तन्नान्विताभिधानं श्रेयः।
नाप्यभिहितान्वयः, यतोऽभिहिताः पदैरर्थाः शब्दान्तरादन्वीयन्ते, बुद्ध्या वा? न तावदाद्यः पक्षः; शब्दान्तरस्याशेषपदार्थ५ विषयस्याभिहितान्वयनिबन्धनस्याभावात् । द्वितीयपक्षे तु बुद्धिरेव वाक्यं ततो वाक्यार्थप्रतिपत्तेः, न पुनः पदान्येवें । ननु पदार्थेभ्योऽपेक्षाबुद्धिसनिधानात्परस्परमन्वितेभ्यो वाक्यार्थप्रतिपत्तेः परम्परया पदेभ्य एव भावान्नातो व्यतिरिक्तं वाक्यम् । तर्हि
प्रकृत्यादिव्यतिरिक्तं पदमपि मा भूत् , प्रकृत्यादीनामन्वितानाम१० भिधाने अभिहितानां वान्वये पदार्थप्रतिपत्तिप्रसिद्धः ।
ननु 'पदमेव लोके वेदे वार्थप्रतिपत्तये प्रयोगार्हम् न तु केवला प्रकृतिः प्रत्ययो वा, पदादपोद्धृत्य तद्युत्पादनार्थ यथाकथञ्चित्तदभिधानात् । तदुक्तम्-"अर्थ गौरित्यत्र कः शब्दः? गकारी
कारविसर्जनीया इति भगवानुवर्षः" [शाबरभा० ११११५] १५ इति । यथैव हि वर्णोऽनंशः प्रकल्पितमात्राभेदेस्तथा 'गौः' इति
पदमप्यनंशमपोद्धृताकारादिभेदं स्वार्थप्रतिपत्तिनिमित्तमवसीयते । इत्यप्यनालोचिताभिधानम् ; वाक्यस्यैवं तात्त्विकत्वप्रसिद्धः, तद्युत्पादनार्थ ततोऽपोळ्त्य पदानामुपदेशाद्वाक्यस्यैव लोके शास्त्रे वार्थप्रतिपत्तये प्रयोगार्हत्वात् । तदुक्तम्"द्विधा कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि वा। अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥"
] इति।
२० दिवा
१ वाच्यवाचकलक्षण । २ पदार्थान्तरैरन्विता अर्था इति। ३ इति प्राभाकरमतं निरस्य भाट्टमतनिरासार्थमाह। ४ वाक्यार्थः। ५ देवदत्वादिकैः। ६ एकेन शब्दान्तरेण। ७ परस्परं सम्बध्यन्ते । ८ एकेन पदान्तरेण सर्वेषां पदार्थों ज्ञातो भवेत्तदा तेन कृत्वा सम्बन्धप्रतिपत्तिर्यतः। ९ पदपरिज्ञानम् । १० वाक्यम् । ११ यसः। १२ आदिपदेन प्रत्ययधात्वादिग्रहणम् । १३ परस्परं सम्बद्धानाम् । १४ क्रियाकारकरूपे विशेषणविशेष्यरूपे च । १५ पृथकृत्य । १६ पदनिष्पत्यर्थम् । १७ अहो। १८ पदसंशकः। १९ ( उपवर्षनामा ऋषिः ) प्राह। २० मात्राः उदात्तादयः । २१ बसः । २२ कल्पित । २३ सास्लादिमदर्थ । २४ उक्तप्रकारेण । २५ पदानि । २६ अर्थःप्रवृत्तिनिवृत्तिलक्षणः। २७ न तु गामिति पदेन कस्य चित्प्रवृत्तिनिवृत्तिवाँ घटते यतः। २८ सुबन्तं तिडन्तं पदमित्यादि । २९ पृथकृतम् । ३० नामाऽऽख्यात निपातकर्मप्रवचनीयभेदेन । ३१ उपसर्गाधिकम् । ३२ पदानि । ३३ तथथा पदादपोद्रियते तथा वाक्येभ्यः पदान्यपोद्रियन्ते इति भावः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org