________________
सू० ३।१०१] अन्विताभिधानवादः तद्गमकत्वात् । परम्परया तत्रास्य व्यापारे लिङ्गवचनस्य लिङ्गिप्रतिपत्तो व्यापारोऽस्तु, तथा च शाब्दमेवानुमानज्ञानं स्यात् । लिङ्गवाचकाच्छब्दाल्लिङ्गस्य प्रतिपत्तेः सैव शाब्दी, न पुनस्तत्प्रतिपन्नलिङ्गाल्लिङ्गितिपत्तिरतिप्रसङ्गात् । तर्हि वृक्षशब्दात्स्थानाद्यर्थप्रतिपत्तिर्भवन्ती शाब्दी मा भूत्तत एव, अस्य स्वार्थप्रतिपत्तावेव पर्यवसितत्वाल्लिङ्गशब्दवत्।
किञ्च, विशेष्यपदं विशेष्यं विशेषणसामान्येनान्वितम् , विशेषणविशेषेण वाऽभिधत्ते, तदुभयेन वा ? प्रथमपक्षे विशिष्टवाक्यार्थप्रतिपत्तिविरोधः । द्वितीयपक्षे तु निश्चयासम्भव:प्रतिनियतविशेषणस्य शब्देनानिर्दिष्टस्य स्त्रोक्तविशेष्येऽन्वयसं-१० शीतेः, विशेषेणान्तराणामपि सैम्भवात् । वक्तुरभिप्रायात्प्रति. नियतविशेषणस्य तत्रान्वयश्चेत् ; न; यं प्रति शब्दोच्चारणं तस्य वभिप्रायाऽप्रत्यक्षतस्तदनिर्णयप्रसङ्गात् , आत्मानमेव प्रति वक्तु: शब्दोच्चारणानर्थक्यात् । तृतीयपक्षे तु उभयदोषानुषङ्गः।
एतेन क्रियासामान्येन क्रियाविशेषेण तदुभयेन वान्वितस्य १५ साधनस्य, साधनसामान्येन साधनविशेषेण तदुभयेन वान्वितायाः प्रतिपादनमाख्यातेन प्रत्याख्यातम् ।
यदि च पदात्पदार्थ उत्पन्नं ज्ञानं वाक्यार्थाध्यवसायि स्यात् तर्हि चक्षुरादिप्रभवं रूपादिज्ञानं गन्धाध्यवसायि किन्न स्यात् ? अथास्य गन्धादिसाक्षात्कारित्वाभावान्नायं दोषः; तर्हि पदोत्थ-२० पदार्थज्ञानस्यापि वाक्यार्थावभासित्वाभावात्कथं तद्ध्यवसायित्वं
१ सामर्थ्यात् । २ वृक्षशब्दाच्छाखादिमदर्थप्रतिपत्तिस्तस्याः सकाशात्स्थानाबर्थप्रतिपत्तिरिति परम्परा। ३ वृक्षपदस्य । ४ परेणाङ्गीकृते सति । ५ धूमवचनस्य । ६ लिङ्गी अग्निः। ७ किंतु न लिङ्गप्रभवम् । ८ शाब्दी । ९ प्रत्यक्षप्रतीतिरिन्द्रियादुत्पद्यमाना शाब्दी स्यात् । १० वृक्षशब्दस्य शाखादिमत्यर्थे साक्षायापारः स्थानाधर्थे तु परम्परयेति। ११ शाखादिमदर्थ । १२ यथा लिङ्गवाचकः शब्दो धूमप्रत्तिपत्ती पर्यवसितः सन्ननिगमको न भवति, धूमस्यैव गमकस्तथा वृक्षशब्दः शाखादिमदर्थस्य वाचको भवति, न पदार्थान्तरगमकः । १३ अन्विताभिधानपक्षे दूषणमाह । १४ गामिति कर्तृ । १५ गोलक्षणम् । १६ शुक्लेति। १७ प्रतिनियतविशेषविशिष्ट । १८ शुक्लमिति शब्देन । १९ गामिति शब्देन। २० सास्लादिमदर्थे गोपिण्डे । २१ या गौः सा कि शुक्लेन विशिष्टा कृष्णेन वेति । २२ कृष्णादीनाम् । २३ शब्देनानिर्दिष्टत्वाविशेषात् । २४ गामित्यादिकारकपदस्य क्रियाकाहित्वे विकल्पत्रयम् । २५ अभ्याजेत्यादिक्रियापदस्य कारकपदाकाशित्वे विकल्पत्रयम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org