________________
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० न हन्त्यपैदोच्चारणात्तदर्थस्याशेषपूर्वपदाभिधेयैरन्वितस्य प्रतिपत्तेर्वाक्यार्थावबोधो भवति, न पुनः प्रथमपदोच्चारणात् तदर्थस्यावान्तरपदाभिधेयैरन्वितस्य, द्वितीयादिपदोच्चारणाचाऽशेषपदाभिधेयैरन्वितस्य तदर्थस्य प्रतिपत्तेरित्यत्रनिमित्तमुत्पश्यामः। ५ अंथ 'गम्यमानैस्तैस्तस्यान्वितत्वम् न पुनरभिधीयमानैः तेनायमदोषः, किमिदानीमभिधीयमान एव पदस्यार्थः? तथोपैगमे कथमन्विताभिधानम्-विवक्षितपदस्य गम्यमानपदान्तराभिधेयानामविषयत्वात् ?
अथ पदानां द्वौ व्यापारी-स्वार्थाभिधानव्यापारः, पदान्तरार्थ१० गमकत्वव्यापारश्च । कथमेवं पदार्थप्रतिपत्तिरावृत्त्या न स्यात् ? पव्यापारात्प्रतीयमानस्येव गम्यमानस्यापि पदार्थत्वात् । न च पद्व्यापारात्प्रतीयमानत्वाविशेषेपि कश्चिदभिधीयमानः कश्चिगम्यमान इति विभागो युक्तः।
ननु पदप्रयोगः प्रेक्षावता पदार्थप्रतिपत्त्यर्थः, वाक्यार्थप्रति१५ पत्त्यर्थो वाभिधीयेत? न तावत्पैदार्थप्रतिपत्त्यर्थः; अस्य प्रेवृत्त्या
हेतुत्वात् । अथ वाक्यार्थप्रतिपत्त्यर्थः; तदा पदप्रयोगानन्तरं पदार्थे प्रतिपत्तिः साक्षाद्भवतीति तत्र पदस्याभिधानव्यापारः पदार्थान्तरे तु गमकत्वव्यापारः, तदप्यसाम्प्रतम् ; 'वृक्षः' इति पदप्रयोगे शाखादिमदर्थस्यैव प्रतिपत्तेः । तदर्थाच प्रतिपन्नात् २० 'तिष्ठति' इत्यादिपवाच्यस्य स्थानाद्यर्थस्य सामर्थ्यतः प्रतीते,
तत्र पैदस्य साक्षाद्व्यापाराऽभावतो गमकत्वायोगात् तदर्थस्यैव
१ उक्तमेव समर्धयन्ति । सर्वेभ्यः पदेभ्यो वाक्यार्थावबोधो, भवतीति परस्यामिप्रायं मनसि धृत्वा वक्ति जैनः। २ दण्डे नेति। ३ प्रकृतादुच्चार्यमाणात्पदादन्यत्पदं पदान्तरम् । ४ प्रतिपत्तेर्वाक्यार्थावबोधो, न पुनरिति । प्राक्तनं न पुनरिति पदमत्र सम्बन्धनीयम् । ५ वाक्यार्थावबोधो, न पुनरिति सम्बन्धः। ६ वयं जैनाः । ७ पदान्तराभिधेयार्थैरन्वितत्वे आवृत्त्या वाक्यार्थप्रतिपत्तिलक्षणदोषो जायते तन्निरासार्थ पदान्तरार्थानां गम्यमानाभिधेयमानौ द्वावर्थाविति परो वदति । ८ पदान्तरैर्शायमा• नैगोचरीकृतरित्यर्थः। ९ उच्चार्यमाणपदार्थस्य । १० उच्यमानैदितीयादिपदार्थैः । ११ आक्षेपः। १२ एवं प्रतिपादनसमये। १३ ज्ञायमानो न भवति । १४ परेणाङ्गीकृते सति । १५ पूर्वपदार्थ उत्तरपदार्थैरन्वित इति । १६ देवदत्तादेः। १७ गामित्यादि । १८ द्वितीयादि । १९ सति । २० पुनः पुनः । २१ केवलं देवदत्चपदार्थस केवलमभ्याजेति पदार्थस्य चेति। २२ प्रयोजनार्थिनां पुंसां प्रवृत्तिहेतुर्न भवति । नहि गौरिति शब्दश्रवणात्प्रवृत्तिनिवृत्तिर्वा घटते। २३ पदप्रयोगः। २४ गम्ये । २५ ततश्वान्वितत्वमेव शब्दार्थः । २६ वृक्ष इत्यादेः। २७ वृक्षपदार्थस्य ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org