________________
सू० ३।१०१] अन्विताभिधानवादः __ अन्ये मन्यन्ते-‘पदान्येव पदार्थप्रतिपादनपूर्वकं वाक्यार्थावबोधं विदधानानि वाक्यव्यपदेशं प्रतिपद्यन्ते। . "पदार्थानां तु मूलत्वमिष्टं तद्भावनावतः।"
[मी० श्लो० वाक्या० श्लो० १११] "पदार्थपूर्वकस्तस्माद्वाक्यार्थोयमवस्थितः।"
[मी० श्लो० वाक्या० श्लो० ३३६] इत्यभिधानात्; तेप्यन्धसपबिलप्रवेशन्यायेनोक्तवाक्यलक्षणमे. वानुसरन्ति; अन्योन्यापेक्षानाकाङ्क्षाक्षरपदसमुदायस्य वाक्यत्वेन तैरप्यभ्युपगमात् । । यदि च पदान्तरार्थैरन्विंतानीमेवार्थानां पदैरभिधानात्पदार्थ-१० प्रतिपत्तेर्वाक्यार्थप्रतिपत्तिः स्यात् । तदा देवदत्तपदेनैव देवदत्ता. र्थस्य गामभ्याजेत्यादिपदवाक्यार्थैरन्वितस्याभिधानाच्छेषपदोच्चारणवैयर्थ्यम् । प्रथमपैदस्यैव च वाक्यरूपताप्रसङ्गः। यावन्ति वा पदानि तावतां वाक्यत्वं यावन्तश्च पदार्थास्तावतां वाक्यार्थत्वं स्यात् । अविवक्षितपदार्थव्यवच्छेदार्थत्वान्न गाम्' इत्यादि-१५ पदोच्चारणवैयर्थ्यम्; इत्यत्राप्योवृत्त्या वाक्यार्थप्रतिपत्तिः स्यात्प्रथमपदेनाभिहितस्य द्वितीयादिपदाभिधेयैरन्वितस्यार्थस्य द्विती. यादिपदैः पुनः पुनः प्रतिपादनात् । . अथ द्वितीयादिपैदैः स्वार्थस्य प्रधानभावेन पूर्वोत्तरपदाभिधे. याथै रन्वितस्याभिधानं नौद्यपदेन अंतोयमदोषः; तर्हि यावन्ति २० पदानि तावन्तस्तदर्थाः पदान्तराभिधेयार्थान्विताः प्राधान्येन प्रतिपत्तव्या इति तावत्यो वाक्यार्थप्रतिपत्तयः कथं न स्युः?
१ भट्टप्राभाकराः । २ अवयवार्थप्रतिपत्तिपूर्वकत्वाद्वाक्यार्थप्रतिपत्तेः । ३ कारणत्वं वाक्यार्थ प्रति। ४ वाक्यार्थस्य । ५ पिपीलिकाधुपद्रवमयाद्विलपरित्यागे भ्रमित्वा पुनरपि तत्रैव प्रवेशो यथा तथानिच्छया स्वीकारोन्धसर्पबिलप्रवेशन्यायः। ६ जैनोक्त । ७ वाक्य विचारानन्तरं वाक्यार्थ विचारयन्नाह । ८ गामित्यादिपदान्तरार्थैः । ९ सम्बद्धानाम् । १० देवदत्तलक्षणोर्थो गामित्यादिपदार्थैरन्वितो गामित्यादि पदार्थाश्च पूर्वोत्तरपदार्थैरन्विता भवन्ति। ११ सर्वथा। १२ केवलैर्देवदत्तादिकैः । १३ एकेन। १४ गामभ्याज शुक्लां दण्डेनेति । १५ पूर्वपदार्थस्योत्तरपदार्थैः सर्वथान्वितत्वात् । १६ तथा च। १७ देवदत्तेति । १८ विवक्षिताद् देवदत्त इत्युक्ते गामभ्याज शुक्ला दण्डेनेत्यादिपदार्थादविवक्षितो देवदत्तेत्युक्ते पठ गच्छ याहि पिबेत्यादि पदार्थः तस्य व्यवच्छेदार्थत्वात् । १९ पुनः पुनः प्रवृत्तिरावृत्तिः । २० एकस्यैवार्थस्य । २१ देवदत्तपदापेक्षया गामभ्याज शुक्लां दण्डेनेति पदैः। २२ द्वितीयादिपदार्थस्याभिधानं प्रधानभावेन । २३ न द्वितीयादिपदार्थस्याभिधानं प्रधानभावेन यतः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org