________________
४६०
प्रमेयकमलमार्तण्डे [३. परोक्षपरिक वर्णानां कालप्रत्यासत्तिरूपसंघातस्य कथञ्चिद्वर्णेभ्योऽभिन्नस्य जैनोक्तवाक्यलक्षणानतिक्रमात् । साकाङ्क्षान्योन्यानपेक्षाणां तु तेषां वाक्यत्वे प्राक्प्रतिपादितदोषानुषङ्गः।
एतेन जातिः संघातवर्तिनी वाक्यम्; इत्यपि नोत्सृष्टम् ; नि५राकाङ्खान्योन्यापेक्षपदसंघातवार्त्तन्याः सदृशपरिणामलक्षणायाः कथञ्चित्ततोऽभिन्नाया जातेर्वाक्यत्वघटनात्, अन्यथा संघातप. . क्षोक्ताशेषदोषानुषङ्गः।
एकोनवंयवः शब्दो वाक्यम् ; इत्येतत्तु, मनोरथमात्रम्; तस्याप्रामाणिकत्वात्, स्फोटस्यार्थप्रतिपादकत्वेन प्रागेव प्रतिविहि१० तत्वात्।
मो वाक्यमित्येतत्तु संघातवाक्यपक्षान्नातिशेते इति तद्दो षेणैव तदुष्टं द्रष्टव्यम्।
बुद्धिर्वाक्यमित्यत्रापि भाववाक्यम् , द्रव्यवाक्यं वा सा स्यात् ? प्रथमप्रकल्पनायां सिद्धसाध्यता, पूर्वपूर्ववर्णज्ञानाहितसंस्कारस्या१५त्मनो वाक्यार्थग्रहणपरिणतस्यान्त्यवर्णश्रवणाऽनन्तरं वाक्यार्थावबोधहेतोर्बुध्यात्मनो भाववाक्यस्याऽस्माभिरभीष्टत्वात् । द्रव्यवा. क्यरूपतां तु बुद्धेः कश्चेतनः श्रद्दधीत प्रतीतिविरोधात ?
एतेनीनुसंहृतिर्वाक्यम्; इत्यपि चिन्तितम् ; यथोक्तपदानुसं. हृतिरूपस्य चेतसि परिस्फुरतो भाववाक्यस्य परामर्शात्मनोऽ. २०भीष्टत्वात्।
'आद्यं पदमन्त्यमन्यद्वा पदान्तरापेक्षं वाक्यम्' इत्यपि नोक्तवाक्याद्भिद्यते, परस्परापेक्षपदसमुदायस्य निराकाङ्क्षस्य वाक्यत्वप्रसिद्धः, अन्यथा पदासिद्धेरभावानुषङ्गः स्यात् ।
१ पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यमिति । २ वाक्यान्तरपदेभ्यः । ३ संघातो वाक्यमित्येतन्निराकरणपरेण ग्रन्थेन । ४ सर्वेषु वर्णेषु वर्णत्वलक्षणा। ५ श्रोत्रग्राह्यत्वेन तावादिव्यापारजनितत्वेन वा, न सर्वथा। ६ पदेभ्यो वर्णेभ्यश्च । ७ प्रतिवर्ण वाक्यत्वप्रसङ्गरूपः। ८ निरंशः। ९ स्फोटः। १० एको वर्णः समु. त्पद्यते पश्चाद्वितीयः ततस्तृतीय इत्यादिप्रकारेण वर्णानां क्रमः। ११ वर्णानाम् । १२. पक्षे। १३ जैनैः। १४ अचेतनत्वाद्वाक्यानां चेतनत्वाद्बुद्धेश्च । १५ बुद्धिवाक्यमित्येतन्निराकरणपरेण ग्रन्थेन। १६ पदरूपतामापन्नानां वर्णानां परामशोनुसंहतिः। १७ प्रतिभासमानस्य । १८ 'देवदत्तः' इति । १९ 'गच्छति' इति । २० परस्परापेक्षादि इत्यस्मात् । २१ परस्परापेक्षारहितं पदं यदि वाक्यम् । २२ सर्वस्य पदस्य वाक्यत्वात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org